SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ तरङ्ग ७/ कथा १६७/१७० १९१ तदा च लोप्नमध्यान्निर्गतमेकं नालिकेरं विलोक्यैकेन चौरेण मुण्डिते तस्य द्विजस्य मुण्डे पाषाणधिया स नालिकेरः स्फोटितः, तेन द्विजेन पुनरागता मम गेहिनी मम मस्तके हण्डिको भनक्तीति मन्यमानेन 'खाउं रे खाउं रे' इति बाढस्वरेण जल्पितमाकर्ण्य कोऽपि भूतः प्रादुर्भूत इति मत्वा ते तस्करास्तत्सर्वं लोप्नं तत्रैव विमुच्य काकनाशं नेशुः। अथ द्विजोऽपि प्रभाते तत्सर्वं मणिमौक्तिककनकरजतादि भूरिधनं विलोक्य लात्वा चाऽन्यत्र पुरे गतोऽन्यां स्त्रियं परिणीय सुखभागभूत्। ॥ इति भाग्ये सुरदासकथा ॥ १६८॥ .॥१६९॥ आत्माऽनुचित-कृत्य-करणेऽनर्थ इत्यर्थे सरट-रासभकथा ॥ शुभमशुभं वाऽऽत्मनोऽनुचितं कृत्यं कुर्वन्नरोऽनर्थभाग् भवति । यत:कृत्यं यद्यस्य तत्तस्य, उचितं नेतरस्य तत्। शुनः क्षणे रटन्नुच्चै, रजकेन हतः खरः ॥ १॥ जिसका काम तिसेकुं छाजइ, और करे 'तो लाठी वाजइ। कुकरठोडे गद्दह पोकारे लाठी लेइ करी धोबी मारे ॥ २॥ तथाहि- पर्वतसरे पुरे भूरणो नाम रजकः, तस्य च बूचिको नाम श्वानः । सरटो नाम रासभश्च। एकदा तस्यौकसि निशि तस्करैर्हृियमाणं वस्त्रधनादिकमालोक्य सरटो बूचिकमूचे, हे भद्र! आत्मस्वामिगृहं तस्करै Hष्यते, तेन त्वं तस्कराऽभिमुखं शब्दं कुर्वन् धावस्व, यथाऽऽत्मस्वामी जागर्ति, तस्मिंश्चोत्थिते चौरा: प्रणश्यन्ति, भवतश्च स्वामिभक्तिः सफला भवति । इति निशम्य बूचिकः प्रोचे हे सरट! रजकोऽयमिदानीं मम भक्तादि न दत्ते, तेनात्रार्थे नाहमात्मवीर्यं सज्जयामीति निषेधपरे तस्मिन् शुनि सरटो धनिकप्रबोधाय बाढस्वरेणारटत् । तदा च तस्मिन् रटति जागरितं धनिकं ज्ञात्वा तस्कराः प्राणश्यन् । रजकोऽपि खरशब्देन प्रातरभूदिति विदन् वसनधावनार्थमुत्थितस्तारकितमम्बरमालोक्य निशां च भूयसीं मत्वा मम निद्रान्तरायोऽवसरं विना रटतानेन पापिना स्वरेण निर्मित इति कामं कुपितः स्थूलयष्टिमुष्टिप्रहारैस्तं सरटं हन्ति स्म। तेन रजकेन बाढतरबहुप्रहारनिहतं भग्नकटितटं सरटं बूचिकः प्रोचे, 'जिसका0' ॥ इत्यात्मानुचितकृत्यकरणेऽनर्थ इत्यर्थे सरट-रासभकथा ॥ १६९॥ ॥१७०॥ विपद्वतामेव विपदित्यर्थे पुष्यवतीकथा ॥ यद्विषये रुष्टो दैवस्तं भृशं खेदयति, यतः दइव विलग्गउ जेहनइं, पुंठि न मुकइ तास । पिता-मरण सीता-हरण राम भमे वनवास ॥१॥ अपि चलग्ना पृष्ठे यदीये तं, विपन्नोज्झति जातुचित् । अत्र पुष्पवती श्रेष्ठि-प्रिया स्पष्टं निदर्शनम् ॥ २॥ १.तउ (तु D)डींगा वाजइ- P || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy