________________
१९२
श्री कथारत्नाकरे
श्री हेमविजयरचिते तथाहि- वारासणे ग्रामे धनदत्तस्य श्रेष्ठिनः पुष्पवती प्रिया, तस्याः कुक्षिभवः कुबेरसेनश्च पुत्रः। एकदा तत्र नगरे सिंहशूरस्य पल्लीपतेर्धाटी समागता, तदा च पुष्पवती पल्लीपतिना गृहीता, स्त्रीत्वेन रक्षिता च ।
अथ धनदत्तस्तस्याः शुद्धिं कुर्वंस्तां पल्लीमागत्य नापितौकसि स्थित्वा स्वप्रियां च तत्र ज्ञात्वा नापितप्रियां तदभ्यर्णं प्राहिणोत्। सापि पतिमागतं ज्ञात्वा कालिकादेवीगृहे चतुर्दशीरात्रावहमागमिष्यामीति सङ्केतं नापितप्रियया स्वपतेरज्ञापयत्। मम महती व्यथा निवृत्तास्तीति कालिकायाः पूजां चतुर्दशीरात्रौ करिष्यामीति दम्भेन पल्लीपतियुता सा तत्रागता पल्लीपतिमसिना निहत्य देवकुलं प्रविष्टा । तत्र स्वपतिं दैवदोषेण च सर्पदष्टं मत्वा तत्तुरगमारूढा रात्रावेव ततो निर्ययौ ।
प्रभाते च पथि चौरैः लात्वा खण्टायणनगरे सा कामरूपाया वेश्याया विक्रीता। एकदा रूपयौवनवती सा वेश्याकर्म कुर्वन्ती तत्राऽऽगतेन कुबेरसेनेन स्वसूनुना सह सम्भोगं व्यधात् । रहसि तया पृष्टेन तेन मातृ-पितृ-ग्राम-नामादिस्ववृत्तान्ते कथिते हा पापया मया सुतसङ्गो विहित इति विषण्णा सा वेश्यावृन्देन वार्यमाणापि जीवन्त्येव चितां प्रविष्टा। तदा च दैववशतः समागतेनोपरितनेन नदीपूरेण सा चिता वाहिता। अथ महति काष्ठे स्थिता तरन्ती यान्ती सा सारणेनाऽऽभीरेण निष्कास्य स्त्रीत्वेन रक्षिता । एकदा गोपकुलोचितकम्बलवेषवती सा तर्क विक्रेतुं मथुरायां नगर्यां गता। तत्र विपणौ राजपुत्रवाजिना हता सा पपात। अथोत्थिता सा भग्नभाण्डा पतितेऽपि तक्रे विशेषतः स्मितमुखा तदनुपलक्षणपरेणैकेन पुंसा हे सुन्दरि! पतितमपि तक्रं न शोचयसि तत्किमिति जगदे।
तमनुपलक्षमाणा सा निजं स्वरूपं जगौहत्वा नृपं पतिमवेक्ष्य भुजङ्गदष्टं, देशान्तरे विधिवशागणिकास्मि जाता। पुत्रस्य सङ्गमधिगम्य चितां प्रविष्टा, शोचामि गोपगृहिणी कथमद्य तक्रम् ॥ ३॥
इति श्रुत्वा स्वस्वरूपं च निवेद्य तेनापि कुबेरसेनेन तत्पुत्रेण संयतीनां पार्श्वे नीता तपस्यां जग्राह । आलोचिताऽशुभकर्मविपाका सा कृतविविधतपाः सुगतिभाग्बभूव। ॥ इति विपद्वतामेव विपदित्यर्थे पुष्पवतीकथा ॥ १७०॥
॥ १७१॥ दैवो बलवानित्यर्थे महाबलकथा ॥ सर्वत्र विधिरेव बलवान्, यतः
हरिपितुः सुभगैकशिरोमणेः, श्रितनभश्चरभूचरसम्पदः ।
दहनतो मृतिरानकदुन्दुभे-विधिरहो बलवानिति मे मतिः ॥ १॥ १. आनकदुन्दुभि-वसुदेव ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org