________________
१९३
तरङ्ग ७/ कथा १७०/१७१ नरपतेः सुभटान्तिमचक्रिणो, गुणवशीकृतसर्वमहीभुजः ।
नयनपङ्कजहानिरभूत्तमां, विधिरहो बलवानिति मे मतिः ॥ २॥ निजभुजार्जितसर्वमहीभुजः, समरकोटिसमर्जितसम्पदः ।
यदि शरेण हरेरभवन्मृति-र्विधिरहो बलवानिति मे मतिः ॥ ३॥ न योगेन न भूपेन, रक्ष्यते च कदापि हि । निबद्धो वटशाखायां, कर्मणा हि महाबलः ॥ ४॥
तथाहि- तिलकपुरे पुरे तिलकसारो नाम राजा, तस्य च तिलकश्री राज्ञी, एकदा दोलापर्यङ्के राज्ञीयुते राज्ञि सुप्ते तन्नगरवासिनो धनबलस्य श्रेष्ठिनो महाबलनामा पुत्रश्चौर्यार्थं निशि भूपसौधं प्रविष्टः ।
तदा च पर्यशृङ्खलयोत्तीर्यैकः सर्पो राज्ञी दष्ट्वा गवाक्षेण गच्छन् महाबलेन दृष्टः । महाबलोऽपि तस्य पृष्ठे द्रुतमेवोत्तीर्य पुरतो वृषभं पुरतश्च नरं तं निरीक्ष्य विस्मितः करे धृत्वा किमिदमकारीति तमप्राक्षीत् । अयं राजा मम पूर्वभववैरी, तेनास्य प्रिया मया देवेन सर्परूपेण दष्टा। हे सुरोत्तम! कथय कथं मे मृतिरिति तेनोक्तेऽमुष्य वटस्य शाखायां लम्बितस्य तव मरणमिति भणित्वा स सुरस्तिरोऽजनि। देववचनमन्यथा कर्तुमुद्यतः स तापसो भूत्वा विजने वने तस्थौ । एकदा एकेन चौरेण तिलकपुरे चौर्यं कृत्वा नष्टः, तस्य पृष्ठे च राजनरा लग्नाः। अथ सायं राजनरानागतान् ज्ञात्वा स तल्लोप्नं महाबलस्यौकसि निधाय क्वाऽपि सुष्वाप। प्रातश्च लोप्नं कुटीरे विलोक्य चौरोऽयमिति तैः स महाबलो राज्ञोऽग्रे निन्ये। निहन्यतामयमित्यादिष्टेऽपि स्मितमुखं तं राजा स्मितकारणमप्राक्षीत्। सोऽपि राज्ञीमरणतः प्रारभ्याऽऽत्मकथां सर्वां निवेद्येति प्रोचे, हे देव! देवोक्तं यदा सत्यं भवति, तदा कः शोक: इति मम स्मितम् । सर्वकार्यधुरीणे मयि सति वराकाणां सुराणां वाग् मिथ्या भूयादित्यभिधाय सुतमिव तं रक्षन्तं राजानं सोऽवोचत्।
हे देव! रम्यवसना-ऽशन-शयन-वाहनादिभिर्भवता लालितोऽप्यहमिमं वटं पश्यन् सशल्य इव खेदं प्राप्नुवन्नस्मि, तेनेमं वटं छिन्धि मां चाऽन्यत्र प्रहिणु, राज्ञोक्तं हे पुत्र! यदि त्वदुक्तं करोमि तदा देववाक् सत्यैव । तेन वटे सत्यपि त्वमिहैव वसन् यदि क्षेमभाक् भवसि तदैव मम पौरुषम्, एवं गच्छत्सु दिनेष्वेकदा महाबलयुतो राजा मृगयार्थं वने गतो गृहान्तर्विस्मृतं स्वमसिमानेतुं महाबलं प्राहिणोत् । सोऽप्यसिं लात्वा द्रुतमागच्छंस्तस्य वटस्याऽधः प्राप्तस्तुरङ्गमं कशया जघान। पृष्ठपदाभ्यां चोल्ललिते तस्मिन् वाजिनि कण्ठस्थामलकमितमौक्तिकहारमध्यस्थरज्जुर्वटशाखायां प्रविष्टः, अथ पदान्तरालतो निर्गते तुरगे महाबलो वटशाखायां लम्बितो रज्जुपाशितकण्ठो मृतिमाप। एनमुदन्तं निशम्य देवादिभ्योऽपि विधिरेव बलवत्तरं इति राजा निश्चिकाय। ॥ इति दैवो बलवानित्यर्थे महाबलकथा ॥ १७१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org