SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १९४ श्री कथारत्नाकरे श्री हेमविजयरचिते ॥१७२॥ भाललिखिताक्षरनिर्णये चन्द्रशेष्ठिकथा ॥ ललाटपट्टस्था वर्णा नान्यथा स्युः, यतः आरोहतु गिरिशिखरं, समुद्रमुल्लङ्घय यातु पातालम् । विधिलिखिताक्षरमालं, फलति कपालं न भूपोऽलम् ॥ १॥ अपि चयमे नाकसदां नाथे, कुबेरे वरुणे तथा । चित्रगुप्तगृहं प्राप्ते, चन्द्र श्रेष्ठी मरिष्यति ॥ २॥ तथाहि- सावरायां नगर्यां धनद इव धनी चन्द्र श्रेष्ठी, स चैकदा हरि-हर-सुरपुरन्दर-स्कन्द-विनायक-दुर्गादिदेवाराधनपरं पौरवर्गं विलोक्य दध्यौ, धिगिमं पौरवर्गं यदेतान् वराकान् देवानाराधयति, यतस्तुष्टा अप्यमी मरणतो न रक्षन्ति, तेन किममीभिर्गलस्तनीगलस्तनतुल्यैर्मुधाप्रयत्नैः? जीवितमरणदानशौण्डं यममेवाऽहमाराधयामीति मत्वा स स्वपुरीतो दक्षिणस्यां दिशि यमचैत्यं विधाय तत्र महिषाऽधिरूढां दण्डमण्डितकरां धूमोर्णाऽध्यासितोत्सङ्गां श्यामलां महाक्रूरां यममूर्ति न्यवीविशत्। अथ बलि-पुष्पादिभिरुपवैणवं पूजयन्तं तं तुष्टो यमो वरं याचस्वेति प्रोचे। तेनोक्तं हे धर्मराज! हे सूरनन्दन! हे कालिन्दीसोदर! यदि मम तुष्टोऽसि तदा मामक्षयजीवितं कुरु, इत्यर्थितः स स्माह मयैकाकिनैतत्कृत्यं न भवति, तेन तवोपरोधेन त्रिभिरन्यैर्लोकपालैः सार्धं सम्भूयैतत्कृत्यं करिष्ये, अथ गम-सुरेन्द्र-कुबेर-वरुणाश्चत्वारोऽप्यमी क्रमेण सम्भूय तमादाय यमलेखकस्य चित्रगुप्तस्यौकसि गताः, तत्रैकस्मिन् देशे चन्द्र श्रेष्ठिनि स्थिते सति ते चित्रगुप्तमूचुः, हे भद्र ! चन्द्र श्रेष्ठिनो नाम भवतो लेखकान्निराकृत्यैनं चिरं जीविनं कुरु । अस्मिन् प्रस्तावे यत्र स चन्द्र श्रेष्ठी स्थितोऽभूत्, तद्गृहभारपट्टे भग्ने तद्गृहं चन्द्र श्रेष्ठिशिरसि पपात। गृहपतनान्मृते च तस्मिन् चित्रगुप्तलेखाऽन्तरिदं लिखितं निरगात्।। यमे नाकसदां नाथे, कुबेरे वरुणे तथा । चित्रगुप्तगृहं प्राप्ते, चन्द्र श्रेष्ठी मरिष्यति ॥ ३॥ ॥ इति भाललिखिताऽक्षरनिर्णये चन्द्रश्रेष्ठिकथा ॥ १७२॥ ॥ १७३॥ परद्रोहकृतामनर्थाऽवाभिरित्यर्थे सुरवमानाम-श्रेष्ठिपत्नीकथा ॥ पापकारिणो हि स्वयमेव निधनं यान्ति, यत:अपकारिषु माऽपायं, चिन्तय त्वं कदाचन । स्वयमेव पतिष्यन्ति, तीरजाता इव द्रुमाः ॥ १॥ अपि चपातकं सृजतां पुंसां, न स्यात्कल्याणसङ्गमः । सपत्न्यै पापकृज्जज्ञे, सपत्नीद्वयमन्धलम् ॥ २॥ __ तथाहि- लक्ष्मीनिवासे नगरे मदनश्रेष्ठिना क्रमेण सुखमा-सुरमा-सुरवमानामानस्तिस्रः पत्न्यः परिणीताः। तत्र लघुत्वेन पतिमानपात्रे सुरवमायामन्ये द्वे पत्न्यौ द्वेषं वहतःस्म। यतः१. धूमोर्णा यमपत्नी ॥ २. उपवैणवं = त्रिसन्ध्या ३. परत्रे - RP || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy