________________
प
तरङ्ग ७/ कथा १७२/१७४ आज्ञाभङ्गो नरेन्द्राणां, गुरूणां मानमर्दनम् ।
पृथक् शय्या च नारीणा-मशस्त्रो वध उच्यते ॥ ३॥ एकदा स्वस्ववेश्मस्थिताभ्यां ताभ्यां पृथक् पृथक् परमान-शर्करा-घृतादिभिः पात्रपूरणतस्तोषितौ मन्त्र-यन्त्रादिकुटिलकर्मकर्मठौ कमठ-शमठनामानौ द्वौ योगिनौ सुरवमानामाऽस्मत्सपत्नी गतलोचना क्रियतामिति प्रार्थितौ। तदा कमठेन सुरवमेति सपत्नीनाम यन्त्राऽन्तर्लिखनाऽवसरे औत्सुक्यवशेन रकार-वकारयोर्मिथ: शिरःसन्धानेन सुखमेति तदीयमेव नाम यन्त्रे लिखित्वा यन्त्रस्समर्पितः, कथितं च ज्वालितेऽस्मिन् यन्त्रे सा नेत्रहीना भवितेति।
शमठेनापि तथैवोत्सुक्यवशेन वकारविस्मरणतः सुरमेति तन्नाम लिखित्वा यन्त्रो दत्तः, प्रोक्तं च तथैव। अथ योगिनोर्गतयोस्ताभ्यां खदिराऽङ्गारैस्तयोर्यन्त्रयोः पृथक् पृथक् दग्धयोः सतोः सद्यः स्वयमेव लोचनरहिते ते बभूवतुः। ॥ इति परद्रोहकृतामनर्थाऽवाप्तिरित्यर्थे सुरवमानामश्रेष्ठिपत्नीकथा ॥ १७३॥
॥१७४॥ शीलविषये वासिनीनाम-वणिकस्त्रीकथा॥ शीलं हि पालितं निर्वाणसम्पत्तिं सृजति। यतः
वाल्लभ्यं वितनोति यच्छति यशः पुष्णाति पुण्यप्रथां, सौन्दर्यं सृजति प्रभां प्रथयति श्रेयःश्रियं सिञ्चति । प्रीणाति प्रभुतां धिनोति च धृतिं सूते सुरौक:स्थितिं,
कैवल्यं करसात्करोति सुभगं शीलं नृणां शीलितम् ॥ १॥ तेनोपायैरपि शीलं पालनीयमेव । यतः
रक्षन्त्युपायैरपि काश्चिदार्याः, स्वशीलमुन्मीलितवर्यशौर्याः ।
यद्रूपवत्या कणपेषणाय, द्विजं नियोज्याऽवितमात्मशीलम् ॥ २॥ तथाहि- श्रीनिवासे नगरे वासवदत्तस्य वणिजो वासिनीनामोहिनी, तयोश्च सुन्दरनामा सुतः, एकदा रूपसौभाग्यजितरतिरूपा सा नारायणस्य विप्रस्य लेखशालायां पठतः स्वसुतस्याऽऽकारणार्थं गता। नारायणोऽपि तां विलोक्य स्मराऽऽतुरोऽजनि। अथ तत्सुताकारणमिषेण प्रत्यहं तद्गृहमागच्छता तेन विप्रेण तत्संस्तवो निर्ममे। विशेषतस्तत्सुतं पाठयता पालयता च तेनान्यदाऽभ्यर्थिता शीलवती । सा कार्यान्तरदम्भमुद्दीश्याऽद्य वा कल्ये वेति भणन्ती तमवञ्चयत्। अथ बाढाभ्यर्थनपरस्य तस्य शिक्षार्थं मध्यरात्रावागन्तव्यमिति तया सङ्केतितः स पुष्पादिसामग्रीमादाय सायं तद्गृहं ययौ। रहसि स्थिते तस्मिन् श्वश्रूदत्तकणपेषणपरायां तस्यां च द्वारे तत्पतिराययौ। १. यन्त्रन्तर्लिखतौत्सुक्यवशेन० AHD |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org