________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते
[ तदा तया नारायणं प्रति प्रोक्तं- भो नारायण ! त्वं ] स्त्रीवेषमाधाय तावत्कणपेषणं कुरु? यावदयं मम भर्ता मया सह रन्त्वा शेते । सुप्ते चाऽस्मिन् आवाभ्यां स्वैरं रहः क्रीडा करिष्यते। अथ तस्मिंस्तथैव कुर्वति मध्ये समेतेन पत्या केयं कणपेषणं करोतीति पृष्टे प्रातिवेश्मिकवधूरिति तया चोक्ते सुखेन तयोः क्रीडतोः सर्वापि शर्वरी व्यतिचक्राम । प्रभाते श्रेष्ठिनि बहिर्गते नारायणोऽपि तत्सुखाऽनाप्त्या कणपेषणेन च भृशं खेदमापन्नो गृहं गतः अथैकदा पथि मिलितः स द्विजस्तयाऽभाणि -
१९६
सुं आजकालि दीसउ न पीसउ, सोऽवोचत् - सु पहिलु पीसउ सघलूं घटिउं, तदा च बाल्यमित्रेणोक्तः स स्वचरित्रमूचे - भुंडिइ कीधूं, न कराविडं सारी राति दलाविडं काज न केवर मालीन सह रामदेवउ ॥ इति शीलविषये वासिनीनाम-वणिक्स्त्रीकथा ॥ १७४॥ ॥ १७५ ॥ असदृशयोगे अशोक श्रीकथा ॥ दैवो हि परस्परमघटमानमेव सम्बन्धं विधत्ते यतः - देव दोहिलु दोष बुझे, छेतरवा छयल्ल 1 जस घरि नारी पदमिनी, तस घरि पुरुष बयल्ल ॥ १ ॥ महियलि माहि भमंतडां, अम्हं अच्छेरुं दिट्ठ । जस घरि पुरुष पुरंदरु, तस घरि नारी कुकट्ठ ॥ २ ॥
अपि च
ससि न किउ निकलंक, काय न दिट्ठी मयणह; सुहडां घरि दालिद्द, लाछी लिइ आली कृपणह । लोअण दीध कुरंग, हीण-लोअण किअ नारी; नागवेल कि निफल, सफल तुंबिणी धारी ॥ ३ ॥ परिमल - हीण सोवण किय, अमुक-मनि एह विभ्रम हुउ । हा हा दैव ज दैव, कारण किमु, ठामि ठामि भूलवि गउ ॥ ४ ॥ चारितं दयितया समाहतं, बीटकं वृषभयोर्जडात्मना 1 धि विधिं प्रविदधात्यनीदृशं यः सदा तनुमतामिति स्थितिः ॥ ५॥ तथाहि— पुरस्थले ग्रामे नन्दनस्य श्रेष्ठिनोऽशोकश्रीश्चतुःषष्टिकलापात्रं पुत्री, निर्धनत्वेन तेन सा बूरस्थले ग्रामे ग्रामीणस्य मूर्खस्य धनदेवस्य दत्ता । तत्र ग्रामे तस्यौकसि तस्थुषी सा काककण्ठे कनकमालेव न शुशुभे । तथापि पतिव्रता सा तेन सार्धं विषयसुखमनुभवति स्म । नागरी सा नगरोचिताऽशन- मण्डन-वचन- गमन-शयन-गानादिकृत्यं विदधती सर्वेषां ग्रामलोकानां मनांसि रञ्जयामास । अन्यदा सा क्षेत्रहलकर्षणं कुर्वाणस्य स्वपतेः कृते भक्तमादाय गच्छन्ती पितुर्गृहादागतमहिलतादलबीटकं भक्तभोजनान्तर्निधाय क्षेत्रं ययौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org