________________
१७६
श्री कथारत्नाकरे
॥ १५३ ॥ कौशल्ये एका कथा ॥
दानशौण्डानामर्थिसङ्गमः प्रमोदाय स्यात्, यतः -
I
सञ्जातात्मजसम्भवादिव महासिद्धिप्रसादादिव, प्राप्तैश्वर्यपदादिव स्थिरतर श्री भोगयोगादिर्व । लब्धस्वर्णरसायनादिव सदा सङ्गादिव प्रेयसां, देहीत्यक्षरकर्णनादपि भवेद्दातावदाताननः ॥ १ ॥ तेन दानिनां किमप्यदेयं न स्यात्, यतः
कष्टात्प्राप्तामपि प्रीतो, विक्रमश्चित्रकारिणे
|
अवादिनीं ददौ कन्यां, किमदेयं हि दानिनाम् ॥ २ ॥
एतत्कथानकान्तर्गतं कथाचतुष्टयं वर्तते, तथाहि — उज्जयिन्यां नगर्यां परदुःखकातरः परस्त्रीसहोदरः श्रीमान् श्रीविक्रमादित्यभूपतिरेकदा राजपाटिकायां व्रजन्नेकं शीर्णाम्बरं त्रुटितचरणत्राणं दूरदेशादागतं दूतं विलोक्य कुतस्त्वं समागा एवमप्राक्षीत् । कनकसारपुरादहं समागामिति तेनोक्ते तत्र किमप्याश्चर्यं त्वया दृष्टमिति नृपेण भणिते स स्माह- देव श्रूयतां तत्रत्यमद्भुतं, तत्र कनकसुन्दरस्य राज्ञः स्त्रैणशिरोमणिस्तिलक श्रीः सुता ।
Jain Education International
श्री हेमविजयरचिते
अन्यदा पितृभ्यां विवाहार्थं भणिता सा कथामकथयत्, रात्रौ चतुरो वारान् यो मां जल्पयिष्यति स मम स्वामी, न चेत्स मम किङ्कर इति तन्निर्णयवार्तां सर्वत्र प्रथितामाकर्ण्य बहवो राजाऽमात्यश्रेष्ठिसार्थवाहसेनानीप्रभृतिसूनवस्तदर्थमागतास्तामजित्वा तदौकसि मुण्डित - मुण्डा मलिनतुण्डा निगडितचरणाः स्त्रीवेषाऽऽभरणाः प्रत्यहं पानीयं वहन्तीति तत्रत्यमद्भुतमहमद्राक्षम्, इत्यद्भुतनिवेदिनि तस्मिन् सत्कारपूर्वकं विसृष्टे तेषां राजादिपुत्राणां दुःखं तस्याश्चाऽभिमानं निराकरिष्यामीति राजा वैतालिकं स्वकिङ्करं सुरं मनसि कृत्वा तत्पुरमगात् । तत्र च योगिवेषेण भ्रमन् राजा राजद्वारे निःस्वाने प्रहारमकरोत् । अस्मत्स्वामिनीं जेतुं कोऽप्यागत इति तत्रागताभिस्तच्चेटीभिः स योगी विलोकितः कथितं च तत्स्वरूपं स्वस्वामिन्यै, तयाऽऽकारितः सोऽप्यन्तर्गत्वा दीपकरम्ये वासहर्म्ये योगिवेषेणैव विष्टरे स्थितो विष्टरस्थायाः सकलालङ्कारशोभितायास्तस्याः कथां कथयितुमुद्यतः स्माह- हे दीपक ! इयमश्मतोऽप्यतिकठिना हुंकारमपि न दत्ते, तेन यदि त्वं हुंकारं दत्से तदा किंचित्कथानकं वच्मि, तदा च दीपान्तः स्थितेन वैतालिकेन तथेति प्रतिपन्ने राजा कथां कथयति स्म । तथाहिकलासरग्रामवासी नारायणो नाम विप्रः कमलानामस्वगृहिणीमानेतुं सप्तवारान् श्वशुरौकसि गतः परं सा केनापि कारणेन नैति स्म । अथाऽष्टमं वारं तामानेतुं गच्छता केशवाऽऽह्वमित्रयुतेन पथि प्राप्ते मृत्युञ्जयनानि तीर्थे महेश्वरस्य पुरस्तादित्यभाणि, हे देव ! अस्मिन् वारे यद्यहं स्वप्रियामादायाऽऽगमिष्यामि तदा तव कमलपूजां करिष्यामीति भणित्वा १. प्रकटित प्रौढ प्रमोदादिव ।
For Private & Personal Use Only
www.jainelibrary.org