________________
१७५
॥७॥ सप्तमस्तरङ्गः ॥ ॥ १५१॥ अज्ञानतः क्रियायां हास्यास्पदमित्यर्थे देवसीवणिकथा ॥ अज्ञानतः क्रियापरोऽपि हास्यं याति, यतः
अज्ञानेन क्रियां कुर्वन्, हास्यस्थानं भवेन्न किम् ।
खीमसीवणिजा सार्धं, देवसीव वणिक् पुरा ॥ १॥ तथाहि- मध्यमे पुरे खीमसी-देवसीनामानौ द्वौ वणिजौ श्रावकौ सुहृदौ वसतः स्म। स च देवसी साधुश्रावकसंस्तवाभावादुपासकक्रियास्वकुशलत्वेन सर्वथा विस्मृतषडाऽऽवश्यकविधिरजनि। एकदा प्रतिक्रमणं कर्तुं गच्छता खीमसिना हठेनाऽऽकारितेन तेन मम किमपि नायातीति भणिते सोऽवोचत्, यथाहं करोमि भणामि तिष्ठाम्युपविशामि च, तथा त्वयापि कर्तव्यमिति भणितः स तेन सममुपाश्रयमागत्य तथैव व्यधात् । अथ क्रमेण दैवसिकप्रतिक्रमणस्थापनाऽवसरे 'देवसियपडिक्कमणं ठाउं' इति खीमसिनाऽभिहिते देवसी दध्यौ, अस्मिन्नवसरेऽहमनेन पृष्टस्तदाहमप्येनं पृच्छामीति मत्वा ‘खीमसीअ ! पडिक्कमणं ठाउं' इति तेन देवसिना भणिते सर्वेऽपि तत्रस्थाः श्रावका: साधवश्च जहसुः । ॥ इत्यज्ञानतः क्रियायां हास्याऽऽस्पदमित्यर्थे देवसीवणिक्कथा ॥ १५१ ॥
॥ १५२॥ अज्ञातवक्तू-श्रोतविषये कुटुम्बिकमूरण-लाखणकथा ॥
अत्रार्थे द्वितीया कथा-बूसाणाग्रामे अतीवमूर्यो मूरणो नाम कुटुम्बिकः, स चैकदा मूल्येन लाखणनामानमेकमतीवमूर्ख कर्मकरमतीवपुष्टं क्षेत्रसीनि खलं निर्मातुमाकारितवान् । मम किमपि नाऽऽयातीति लाखणेनोक्तेऽपि यथाहं करोमि तथा त्वयापि विधेयमिति शिक्षितस्य तस्य शिरसि पयःपूर्णं कुम्भं दत्त्वा स्वशिरसि च निहितगोमयेन तेन खलोचितप्रदेशे गत्वोर्द्धव स्थितेनैव गोमये भुवि क्षिप्ते स तं कुम्भमपि तथैव न्यक्षिपत् । आः पाप ! किमिदमकारि? तेनाप्येवमेव भणितं, मूरणस्तं निहन्तुमुद्यतः, लाखणोऽपि तं हन्तुमेवोद्यते पुरतो मूरण: पृष्ठतश्च लाखण एवं धावमानयोस्तयोर्मूरणस्य परिधानवस्त्रे कण्टके लग्ने मूरणं नग्नं विलोक्य लाखणोऽपि नग्नोऽभूत्। तयोर्नग्रयोस्तथैव धावमानयोरथ जलार्थं पुराबहिर्यान्त्याः स्वपल्या उत्तरीयवस्त्रमादाय मूरणेन परिहिते लाखणोऽपि तस्याः परिधानवस्त्रं बलात्कारेणाऽप्यादाय परिहितवान् । अथ तां नग्नां तौ च धावमानौ विलोक्य सविस्मयैर्लोकैः पृष्टे लाखणेन यथास्थितमभिहिते अहो अहो मूर्खाविमावित्यभिधाय लोकेषु गतेषु तेऽपि स्वस्थानं गतवन्तः ॥ इत्यज्ञातवक्तृ-श्रोतृविषये कुटुम्बिकमूरण-लाखणकथा ॥ १५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org