Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 259
________________ २१४ श्री कथारत्नाकरे श्री हेमविजयरचिते यथारुचि याचस्वेति भणिता सा स्वमभिप्रायमभणत्। हे पुत्रि! गृहाण मूलमिदं, अस्मिंश्च घ्राते नरः पशु वितेत्यभिधाय तन्मूलं च दत्त्वा गते तस्मिन् योगिनि श्रीमत्यां च क्वाऽपि गतायामवसरं प्राप्य पुरो नीतं तन्मूलमाघ्राय स श्रेष्ठी वृषभो बभूव। परिवारेण तद्भानुमतीविलसितं मत्वा सा धिक्चक्रे, हे पापिनि! पतिवैरिणि ! गृहाणेमं वृषभं पालय चेति भणिता खेदवती सा प्रतिदिनं तं वृषभं स्वयं चारयामास। अन्यदैकस्य पिप्पलस्याऽधस्तं वृषभं चारयन्तीं रुदन्तीं च तां ज्ञात्वा तत्र पिप्पले स्थिता वटवासिनी निकटस्थं स्वपतिं प्रोवाच। हे नाथ! किमियमबला भृशं विलपतीति पृष्टोऽसौ तच्चेष्टितं समस्तं जगौ। हे नाथ ! येनोपायेनाऽस्मिन् वृषभे पुरुषीभूतेऽमुष्याः शर्म स्यात्तमुपायं वदेति प्रियायाः कामाग्रहेण प्रेरितो यक्षो जगौ, हे प्रिये! मध्याह्ने यावती भुवमस्य तरोरच्छाया व्याप्नोति तदन्तराले चैका दिव्यौषधिरस्ति, तां च यदि वृषभोऽयमत्ति तदा स पुमान् स्यादित्यभिधाय स्वैरविहारिणोस्तयोर्गतयोः श्रुततद्वार्ता भानुमती दध्यौ, कथं सौषधिरुपलक्षयिष्यते, कथं चैष प्रियः पुमान् भावीति? अथवा किं विकल्पैः? मध्याह्नच्छायाऽलकृतभुवि रूढं सर्वं चारयामि, तदन्तः सा दिव्यौषधिरप्येष्यतीति मत्वा मध्याह्नच्छायाऽन्वितायां तत्पिप्पलाऽधोभुवि रूढेषु तृण-लता-काष्ठ-दर्भादिषु सर्वेष्वप्यनुक्रमेण सयत्नं तया चारितेषु तदन्तःस्थया भक्षितया तया दिव्यौषध्या स वृषभ: सद्यः पुमानासीत्। एवं दान-शील-तपो-भावेषु सुकृतेष्वनुष्ठीयमानेषु क्वाऽपि कदाऽपि कुतोऽपि कथमपि च मोक्षोचितं सुकृतमुपलभ्यते। ॥ इति सुकृते नरदत्तश्रेष्ठिकथा ॥ १८८॥ ॥१८९॥ गुणज्ञानादेवाऽऽदर इत्यर्थे नन्दमणिपरीक्षककथा ॥ गुणवान् हि गुणज्ञैरेव मान्यते, यतःदृषदेषेति दम्भेन, नन्देन मणिराददे। यो जानाति गुणान् यस्य, स तत्राऽऽदरभाग्भवेत् ॥ १॥ तथाहि- दिल्ल्यां महानगर्यां नन्दनामा मणिपरीक्षकः, तस्य शिवदत्त-रामदत्तौ पुत्रौ, दैवयोगेन नन्दस्य भार्या मृता, दौर्गत्यं च जातम्, अन्यदा स्त्रीमरणदुःखेन पीडितः स्नुषावचनदग्धः पुत्रायत्तविभवश्च स परदेशमगमत् । यतःवृद्धस्य मृतभार्यस्य, पुत्राऽऽधीनधनस्य च । स्नुषावचनदग्धस्य, जीवितान्मरणं वरम् ॥ २॥ तत्र च ग्रामादौ मणिकारव्यापारपरायणो भ्रमन्स एकत्र पुरे कस्याऽपि गृहे दधि क्रीणंस्तत्पत्नीकण्ठे काचमणिमध्ये स्थितं सपादकोटिमूल्यं महामणिमालोक्य तमादित्सुस्तां स्वसारमिव मन्यमानस्तदोकसि तस्थौ। ताम्बूल-कुसुम-कुङ्कम-सिन्दूर-मृद्विकाऽऽदिदानेन तामात्मसात्कुर्वाणः सोऽन्यदा तत्पुरः कूटलेखं वाचयामास, यत् शिवदत्त-रामदत्ताभ्यां लिखितम्, हे तात! अस्मदपरमातुः सीमन्तोत्सवः कृतोऽस्तीति । अथ हे भगिनि! यदि तव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380