________________
२१४ श्री कथारत्नाकरे
श्री हेमविजयरचिते यथारुचि याचस्वेति भणिता सा स्वमभिप्रायमभणत्। हे पुत्रि! गृहाण मूलमिदं, अस्मिंश्च घ्राते नरः पशु वितेत्यभिधाय तन्मूलं च दत्त्वा गते तस्मिन् योगिनि श्रीमत्यां च क्वाऽपि गतायामवसरं प्राप्य पुरो नीतं तन्मूलमाघ्राय स श्रेष्ठी वृषभो बभूव। परिवारेण तद्भानुमतीविलसितं मत्वा सा धिक्चक्रे, हे पापिनि! पतिवैरिणि ! गृहाणेमं वृषभं पालय चेति भणिता खेदवती सा प्रतिदिनं तं वृषभं स्वयं चारयामास।
अन्यदैकस्य पिप्पलस्याऽधस्तं वृषभं चारयन्तीं रुदन्तीं च तां ज्ञात्वा तत्र पिप्पले स्थिता वटवासिनी निकटस्थं स्वपतिं प्रोवाच। हे नाथ! किमियमबला भृशं विलपतीति पृष्टोऽसौ तच्चेष्टितं समस्तं जगौ। हे नाथ ! येनोपायेनाऽस्मिन् वृषभे पुरुषीभूतेऽमुष्याः शर्म स्यात्तमुपायं वदेति प्रियायाः कामाग्रहेण प्रेरितो यक्षो जगौ, हे प्रिये! मध्याह्ने यावती भुवमस्य तरोरच्छाया व्याप्नोति तदन्तराले चैका दिव्यौषधिरस्ति, तां च यदि वृषभोऽयमत्ति तदा स पुमान् स्यादित्यभिधाय स्वैरविहारिणोस्तयोर्गतयोः श्रुततद्वार्ता भानुमती दध्यौ, कथं सौषधिरुपलक्षयिष्यते, कथं चैष प्रियः पुमान् भावीति? अथवा किं विकल्पैः? मध्याह्नच्छायाऽलकृतभुवि रूढं सर्वं चारयामि, तदन्तः सा दिव्यौषधिरप्येष्यतीति मत्वा मध्याह्नच्छायाऽन्वितायां तत्पिप्पलाऽधोभुवि रूढेषु तृण-लता-काष्ठ-दर्भादिषु सर्वेष्वप्यनुक्रमेण सयत्नं तया चारितेषु तदन्तःस्थया भक्षितया तया दिव्यौषध्या स वृषभ: सद्यः पुमानासीत्। एवं दान-शील-तपो-भावेषु सुकृतेष्वनुष्ठीयमानेषु क्वाऽपि कदाऽपि कुतोऽपि कथमपि च मोक्षोचितं सुकृतमुपलभ्यते। ॥ इति सुकृते नरदत्तश्रेष्ठिकथा ॥ १८८॥
॥१८९॥ गुणज्ञानादेवाऽऽदर इत्यर्थे नन्दमणिपरीक्षककथा ॥
गुणवान् हि गुणज्ञैरेव मान्यते, यतःदृषदेषेति दम्भेन, नन्देन मणिराददे। यो जानाति गुणान् यस्य, स तत्राऽऽदरभाग्भवेत् ॥ १॥
तथाहि- दिल्ल्यां महानगर्यां नन्दनामा मणिपरीक्षकः, तस्य शिवदत्त-रामदत्तौ पुत्रौ, दैवयोगेन नन्दस्य भार्या मृता, दौर्गत्यं च जातम्, अन्यदा स्त्रीमरणदुःखेन पीडितः स्नुषावचनदग्धः पुत्रायत्तविभवश्च स परदेशमगमत् । यतःवृद्धस्य मृतभार्यस्य, पुत्राऽऽधीनधनस्य च । स्नुषावचनदग्धस्य, जीवितान्मरणं वरम् ॥ २॥
तत्र च ग्रामादौ मणिकारव्यापारपरायणो भ्रमन्स एकत्र पुरे कस्याऽपि गृहे दधि क्रीणंस्तत्पत्नीकण्ठे काचमणिमध्ये स्थितं सपादकोटिमूल्यं महामणिमालोक्य तमादित्सुस्तां स्वसारमिव मन्यमानस्तदोकसि तस्थौ। ताम्बूल-कुसुम-कुङ्कम-सिन्दूर-मृद्विकाऽऽदिदानेन तामात्मसात्कुर्वाणः सोऽन्यदा तत्पुरः कूटलेखं वाचयामास, यत् शिवदत्त-रामदत्ताभ्यां लिखितम्, हे तात! अस्मदपरमातुः सीमन्तोत्सवः कृतोऽस्तीति । अथ हे भगिनि! यदि तव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org