________________
तरङ्ग ८ / कथा १८७ / १८८
२१३
अथ प्रभाते नेत्रपट्टबन्धं कृत्वा तां राज्ञः पुरस्तैरानीय कथितं, हे स्वामिन्नेषा महाशाकिनी पौरवर्गविनाशिनी रात्रावस्माभिर्जगृहे । सुन्दराऽऽकारवेषधारिणी नैषा शाकिनीति निश्चित्य राज्ञा पृष्टा मुक्तनेत्रबन्धा साऽवादीत् । हे देव! नाऽहं शाकिनी, किञ्च वणिक्सुता कार्यवशेन जङ्गहिर्गत्वा मध्ये प्रविशन्ती भवत्पुरुषैर्विधृता । यदि च भवतः संशयस्तदा ज्वलन-जल-भुजङ्गमाssदिदुःसाध्यमपि दिव्यं करोमि । सर्पदिव्यमुद्दिश्य राजप्रहितैर्नरैः काकतालीयन्यायेन तस्मिन्नेव सर्पे समानीतेऽभीष्टदेवतानामस्मृतिकारिण्या तया पौरेषु पश्यत्सु करः सर्पघटे निदधे । पुष्पमालाया इव करे गृहीतस्य तस्य सर्पस्य फणाऽभ्यर्णे तं दवरकं विलोक्य चकिता सा निराकरोत् । तदा चाऽभ्रपटलान्निर्गतमिन्दुमण्डलमिव रम्याऽऽकारं विभूषितं सुदर्शनं राजपुत्रं विलोक्य सर्वेऽपि राजाऽऽदयो विस्मिताः अथ राज्ञा पृष्टौ तौ स्वं स्वं वृत्तान्तमूचतुः । अथ राजा दध्यौगजभुजङ्गविहङ्गमबन्धनं, शशिदिवाकरयोर्ग्रहहीण्डनम्
I
मतिमतां च निरीक्ष्य दरिद्रतां, विधिरहो बलवानिति मे मतिः ॥ ३ ॥
अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकुरुते ।
विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति ॥ ४॥ अथ प्रमुदिताः पितरस्तयोः पाणिग्रहणं कारयामासुः ॥ इति दैवविषये सुदर्शनकथा ॥ १८७॥
॥ १८८ ॥ सुकृते नरदत्तश्रेष्ठिकथा ॥ सुकृतेषु प्रायेण प्रमादो न श्रेयान् यतः -
भोज्ये निर्जरराज भोज्यमधुरे हालाहलोऽक्षेपि तैः । दुग्धे स्निग्धरसे रसेन निदधे तैरालनालं जलम् ॥ क्षिप्ता तैः कपिकच्छूरच्छशिशिरे श्रीखण्डखण्डद्रवे । यैर्धर्मेऽनवधानता प्रविदधे स्वर्गापवर्गप्रदे ॥ १ ॥
तेनाऽनवरतसुकृतकरणादेव कार्यसिद्धिः, यतःनानाविधं विदधतां सुकृतं नराणां, मोक्षोचितं क्वचिदुपैति तदात्मकृत्यम् । यत् पिप्पले कवलयन् वृषभस्तृणानि, दिव्यौषधीं समधिगम्य पुमान् बभूव ॥ २ ॥ तथाहि - भोजपुरे पुरे नरदत्तश्रेष्ठिनो भानुमती श्रीमतीसंज्ञे द्वे प्रिये । तत्र लघीयस्या रूपयौवनवत्या श्रीमत्या सह भृशमासक्तं पतिं विलोक्य सञ्जातेर्ष्या भानुमती तयोर्विरूपकरणार्थं मन्त्र- यन्त्रादिकौटिल्यं गवेषयामास । अन्यदा गृहमागतो बन्धुनाथनामा योगी तया परमाऽन्नाऽऽदिपात्रपूरणतो भृशं तोषितः । अथ मन्त्र - मूलादिविद्याविशारदेन गाढं प्रीतेन तेन १. D - क्षिप्तौघैः शिशिरे च चन्दनरसे तैरात्मगुप्ताजडै: AH॥ २. कपिकच्छू = कुवेच ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org