________________
२१२
श्री कथारत्नाकरे
॥ १८७॥ दैवविषये सुदर्शनकथा ॥
भावि भवेदेव, यतः
गमितव्यं गमत्येव, गजभुक्तकपित्थवत् । भवितव्यं भवत्येव, नालिकेरफलाऽम्बुवत् ॥ १॥
अपि च
श्री हेमविजयरचिते
अवश्यं भाविनो भावा-न्न रोध्धुं वासवोऽप्यलम् ।
सर्पीभूतोऽपि पद्मां स्त्रीं परिणिन्ये सुदर्शनः ॥ २ ॥
तथाहि - वित्तसारे नगरे नरसिंहस्य राज्ञो दानशौण्डः सुदर्शनः सुतः, तं चैकदा प्रभाते दानशालायां दानं ददतं विलोक्य पठनार्थं व्रजन्ती पद्माऽभिधा नन्दिश्रेष्ठिसुता रागातुराऽजनि । सोऽपि रतिमिव रम्यां तामुदीक्ष्य विषमशरशरैः पीडितोऽजनिष्ट। अथोत्तरदिड्नगरद्वारपुरोवर्त्तिनो वटस्याऽधस्तादावयोः सायं सङ्गम इति करपल्लव्या तस्मै ज्ञापयित्वा सा स्वं स्थानं गता । करपल्लवी यथा—
अहिफण कमल चक्र टंकाल, तेग पाणि योवन सिरवाल ।
अङ्गुलि अक्षर चिपटीमात, सीता भणइ सुणउ पिउ वात ॥ ३॥ अहिफण अवर्गः, कमलं कवर्ग:, चक्रं चवर्ग:, टंकाल टवर्गः, तेग तवर्ग:, पाणि पवर्गः, योवन यवर्गः, सिरवाल सवर्गः । अथ षोडशशृङ्गारशालिन्यां तस्यां तत्र स्थितायां चतुरचूडामणिः सोऽपि तस्या अभिप्रायं ज्ञात्वा सायं सङ्केतितस्थानमगात् । अथ प्रहेलिकाप्रश्नोत्तरगूढाऽर्थवृत्तैर्मिथो वार्तापरयोस्तयोः पतितोत्तरीयायाः पद्माया वेणीबन्धे सञ्जाताऽपरपन्नगभ्रमो वटकोटरवासी सर्पों दशमद्वारे तां दशति स्म । शनैः शनैः प्रसर्पता सर्पविषेण मूर्च्छितां पतितां मृतां च तां मत्वा प्रकाममकार्यमभूदिति खेदवान् स चितार्थमितस्ततो दारूणि संग्र तां चितान्तर्निधाय निशीथे दवीयांसं वह्निं विलोक्य तत्र ययौ । तेन वह्निं याचितो निकटस्थो योगी तं विलोक्य द्वात्रिंशल्लक्षणोऽसौ वह्नौ हूतः स्वर्णनरः स्यादिति मत्वा तं जगौ, हे भद्र! अयमपूतः स्मशानस्य वह्निः, अतोऽत्रोपविश, अन्यतोऽन्यमग्निमानीय तुभ्यं यच्छामि, किञ्चेह तिष्ठतस्तवोपसर्गो भावी, तेन तन्निवारणार्थमिमां दवरकरक्षां भवत्कण्ठे निबध्नामीति तेनाऽपि तदुक्ते स्वीकृते योगिनाऽपि च श्यामदवरके तत्कण्ठे बद्धे स सर्पः सञ्जातः, अथ पाषाणपिहिते भूमिगते घटे तं सर्पं निधाय रात्रावेव तस्य होमार्थमौषधीर्मठान्तर्विलोकयन् स योगी सर्पेण दष्टो मृतः ।
Jain Education International
तदा च तस्मिन् पुरे शाकिनीनामुपद्रवेण बालका म्रियन्ते स्म । तन्निग्रहणार्थं राजपुरुषाश्चत्वराऽऽदिषु भ्रमन्ति स्म । अहो अद्य राजाऽङ्गजः क्वापि गतः केनाऽपि हृतो वेति विशेषतो राज्ञा नियुक्ताः सुभटा पर्यटन्ति स्म । तदा च दैववशतश्चितामध्यगतनागदमनीखण्डयोगेन गतविषा सा तं कुमारं च तत्राऽदृष्ट्वा नगरजलनिर्गमद्वारेण नगरं प्रविशन्ती राजनरैर्दृष्टा बद्धा च कारायां क्षिप्ता ।
For Private & Personal Use Only
www.jainelibrary.org.