________________
२११
तरङ्ग ८/ कथा १८४/१८६ तथाहि- भूरमणीये नामवने देवशर्मादयो बहवस्तापसा वसन्ति स्म। तत्र चैकदा कलिं कुर्वतः शरटान् दृष्ट्वा देवशर्माऽऽह्वेन तापसपतिनाऽन्ये तापसाः प्रोचिरे, अत्र वने यत्र तत्रापि शरटानां युद्धं दृश्यते, तेनाऽस्मिन् वने आत्मनां स्थितिर्न श्रेयसीति प्रतिदिनं भणिता अपि केऽपि तापसा मत्ता मतङ्गजा अङ्कशमिव तद्वचनमवजानन्ति स्म।
__ केऽपि तापसास्तद्वनं हित्वाऽन्यत्र गच्छता देवशर्मणा सममितरवनं गत्वा भद्रभाजो बभूवुः । अन्येधुरेकस्मिन् सरसि पानीयं पिबत्सु मत्तमातङ्गेषु तत्पालिरूढकर्कन्धुमूर्धनि कलिं कुर्वाणं शरटद्वयं ततोऽधस्तानिपतत्तटाक-तोयमादायो/कृतायामेकस्य करिणः शुण्डायां पपात। शुण्डाविवरेण तत् शरटयुग्मं तस्य गजस्य कुम्भस्थले प्राप्तम्। अथ तव्यथया बाढं व्याकुलीभूतो भूतार्त इव स द्विरदस्तांस्तापसान्निहत्य तमाश्रमं मूलादुन्मूल्य मृतः ॥ इति कलहे तापसकथा ॥ १८५॥
॥१८६॥ मतिविषये भोजराजकथा ॥ सुधियो हि संज्ञामात्रेण परमनो विदन्ति। यतःविदन्ति मूर्खा अपि कार्यमीरितं, हयाश्च नागाश्च वहन्ति नोदिताः ।
अनुक्तमप्यूहति पण्डितो जनः, परेङ्गितज्ञानफला हि बुद्धयः ॥ १॥
अपि चविदन्ति हृदयं संज्ञा-मात्रेण मतिशालिनः । मृन्मयौ गोलको वीक्ष्य, दानं दत्ते स्म भूपतिः ॥ २॥
तथाहि- धारायां नगर्यां भोजराजा राज्यं करोति स्म। इतस्तत्परिसरे सारणग्रामे महामो गोविन्दनामा द्विजो निर्व्यापारस्तिष्ठन् पुण्यश्रिया पत्न्या प्रोचे, हे नाथ! निर्व्यापाराणामात्मनां गृहनिर्वाहो दुष्करः, तेनाऽऽत्मकुलोचितं राजसेवा-पौरजनयाचनादि विधेहीति भणितः सोऽभणत्, हे प्रिये! निरक्षरोऽहं किमपि वक्तुं कर्तुं च न वेद्मि, तेन राजसेवाऽऽदि कथं करोमि? अथ धीमती साऽवादीत् हे स्वामिन्निमौ मृन्मयौ गोलको लात्वा धारानगर्यां गच्छ, तत्र च सभासीनस्य भवत्संमुखं पश्यतो भोजराजस्यैकोऽयं गोलको दर्शनीयः, तदा च यदि स किमपि न ब्रूते न च दत्ते तदा द्वितीयो दर्शनीयः, इति शिक्षितेन तेन तत्र गत्वा तथैव विहिते भोजेन सपादलक्षस्वर्णमदायि।
तदा च सञ्जातेाभरैरन्यैः पण्डितैः प्रोचे, हे देव! यदीदृशस्याऽपि जडस्यैतावत्कनकं त्वया वितीर्णं, तदा का भवतो गुणज्ञता विदग्धता चेति भणितो दानशौण्डो राजा प्रोवाच, भोः पण्डिता ! अनेन यत्सूचितं तद्भवद्भिः किमवगतं? नेति तैः प्रतिपादिते पुनर्भोजो बभाण, एकं गोलकं दर्शयतामुनैतदसूचि, यदहं गोलकतुल्यो निर्धनो निरक्षरश्चाऽस्मि, तथाऽपि मयि किञ्चिदप्यददाने पुनर्द्वितीयं गोलकं दर्शयताऽनेनेति ज्ञापितं, यथाऽहमेको गोलकस्तथा भवानपि द्वितीय इति। अथ यदि नाऽस्य दानं ददामि तदाऽहमस्मादपि मूर्खतमो भवामीति मयाऽस्मै विशेषतो दत्तमिति पण्डितान्निरुत्तरीकृत्य विशेषतो मानितोऽसौ द्विजो गृहं गतः सुखवानासीत्। ॥ इति मतिविषये भोजराजकथा ॥ १८६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |