SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ सागर २१० श्री कथारनारे श्री हेमविजयरचिते सोऽपि प्रतिदिनं गृहमागच्छन् पुर:स्थितस्य तस्य टल्लिका प्रयासं विनैवाऽऽलोक्य भुञ्जानस्तं नियममपालयत्। अथैकदा स कुलालो मृत्तिकामादातुं खानौ गतः, तदा गृहमागच्छता तेन तस्य टल्लिकामविलोक्यैव भोक्तुमुपविशता स्मृतनिजनियमेन माताऽभाणि, हे मातर्मयाऽद्य टल्लिका विलोकिता नाऽस्ति, तेनैतत्कृत्यं कृत्वा भोक्ष्ये। इत्यभिधाय कुलालस्य च शुद्धिं विधाय स तस्यां खानौ ययौ। तदा च स कुलालस्तत्र स्वर्ण-मणिभृतामेकां कटाहिकां लब्धामितस्ततो गोपयन्नभूत्।। सोऽपि तस्य टल्लिकामेव दूरतो विलोक्य दृष्टा दृष्टेति च भणन् चलमानस्तेनाऽभाणि, रे भद्र! समागच्छ, अर्धा तव अर्धां च ममेति तद्वचनमाकर्ण्य वलितः स तदर्धभागेन बहुस्वर्णमणिधनं लात्वा गृहं गतः। अहो! धन्यं जिनशासनं, यत्रेदं स्तोकमपि प्रत्याख्यानं बहुफलदं जातमिति चिन्तयन् सोऽन्यदा तत्राऽऽगतानां तेषामेव गुरूणामभ्यर्णे श्रावकोऽभूत् । क्रमेण निरतिचारं श्रावकधर्ममाराध्य स द्वादशे कल्पे सुरः समजनि। ॥ इति नियमपालने कमलश्रेष्ठिकथा ॥ १८३॥ ॥१८४॥ लोकाऽनुगतिको लोक इत्यर्थे मुकुन्दविप्रकथा ॥ जनो हि जनाऽनुगत एव प्रायः परमार्थवन्ध्यमेवाऽनुतिष्ठति, यत: लोकाऽनुगतिका लोको, न लोकः पारमार्थिकः । ___ रजःपुञ्जे मुकुन्देन, कृते सर्वोऽपि तद्व्यधात् ॥ १॥ तथाहि- शुभवासग्रामवासी मुकुन्दो नाम पण्डितद्विजन्मा तीर्थयात्रां कुर्वन्नेकदा गङ्गां गतः, तत्र च स्नातुमुद्यतः स स्वं ताम्रपात्रं वालुकान्तर्निधाय तत्स्थानोपलक्षणार्थमुपरि रजःपुर्ज विधाय तदुपरि चैकं तृणं निधाय स्नानं व्यधात् । तेन पण्डितेन विप्रेण तथा निर्मितं निरीक्ष्य स्नानार्थमागतैरन्यैर्लोकैश्चिन्तितं, यदसौ पण्डितोऽपि महानपि विप्रश्चेदित्थं विधत्ते, तदा चाऽस्मिंस्तीर्थ एवं करणे महान् लाभ इति मत्वा स्नानादर्वाक् सर्वैरपि लोकैस्तथा चक्रे। स्नानं विधाय निर्गतः स मुकुन्दः सर्वतो बहुनि रजःपुञ्जानि विलोक्य स्वं पुञ्जमलक्ष्यमाणः स्वं पात्रं हारितवान्। ॥ इति लोकाऽनुगतिको लोक इत्यर्थे मुकुन्दविप्रकथा ॥ १८४॥ ॥१८५॥ क्लहे तापसकथा ॥ कलहो हि विपत्तिमूलं, यतःन पूज्या यत्र पूज्यन्ते, यत्र नीतेरतिक्रमः । यत्र वाक्कलहो नित्यं, श्रियस्तत्र वसन्ति न ॥१॥ किं बहुना ? कलहाश्रितानां पार्श्वे स्थितिरपि न श्रेयसी, यतः न स्थेयं जातुचित्सद्भिः, पार्श्वे कलहकारिणा । नाऽऽपुः किं कलितः क्लेशं, शरटानां तपोधनाः ?॥ २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy