________________
२०९
तरङ्ग ८/ कथा १८३ रोमाञ्चस्वेदजृम्भान् श्रयति कुचतटस्रंसि वस्त्रं विधत्ते, सोत्कण्ठं वक्ति नीवी शिथिलयति दशत्योष्ठमङ्गं भनक्ति ॥ १८ ॥ नेशं पश्यति नाऽभिनन्दति मुहुर्मित्रैः प्रतीकस्थिता। योगे सीदति दुष्यतीह विरहे यात्याऽऽननं चुम्बिता । नाऽस्मादिच्छति मानमीयॆति रते प्रत्युत्तरं नाऽऽश्रयेत् । स्पर्शादुद्विजते स्वपत्युपगता शय्यां विरक्ता सती ॥ १९ ॥ आकारैः कतिचिद् गिरा कुटिलया काश्चित् कियन्त्यः स्मितैः, स्वैरिण्यः प्रथयन्ति मन्मथशरव्यापारवश्यं मनः । कासांचित्पुनरङ्गकेषु मसृणच्छायेषु गर्भस्थितो,
भावः काचघटीषु पुष्करमिव प्रव्यक्तमुत्प्रेक्ष्यते ॥ २० ॥ एवमनिशं शृङ्गारसुन्दराणि गुरुवचांसि शृण्वानः कमलो गुरुरागवानासीत्। मयि भक्तिभागयमिति गुरवोऽपि प्रथमं शृङ्गाररसमभिधाय वैराग्यमभ्यधुः, यतः
शृङ्गाराऽङ्गारान् यदि, नादावुद्दीपयन्ति विबुधजनाः।
शान्तरसरसवतीयं, कथय कथं पाकमायाति ॥ २१ ॥ वैराग्यं यथाभवारण्यं भीमं तनुगृहमिदं छिद्रबहुलं, बली कालश्चौरो नियतमसिता मोहरजनी । गृहीत्वा ध्यानाऽसिं विरतिफलकं शीलकवचं, समाधानं कृत्वा स्थिरतरदृशो जागृत जनाः ॥ २२ ॥
अन्यदा ततश्चलनाऽवसरेऽनुयातः स गुरुभिरूचे, हे कमल! किञ्चित्प्रत्याख्यानं कुरु, हास्यरुचिना तेनोचे
मर्तव्यं बत नेच्छया च वितथं वर्षे द्विपक्षी विना । पक्षेनाऽक्षतनालिकेरवदनक्षेपो न कार्यो मया ॥ पक्वाऽन्नेषु च वेल्लुकानि मिहिरस्नुह्यादिदुग्धानि च ।
दुग्धेषु छगणं गणीन्द्र ! हरितेष्वाऽऽहारणीयं न मे ॥ २३ ॥ अस्माभिरपि सह हास्यमिति भणितः सोऽभणत्गुरुणाऽपि समं हास्यं, कर्तव्यं कुटिलं विना। परिहासविहीनस्य, जन्तोर्जन्म निरर्थकम् ॥ २४॥
पुनर्गुरुणा भणितः सोऽप्यवोचत् मद्गृहपुरो वसतः सीमाह्वस्य कुम्भकारस्य टल्लिकामवलोक्य भोक्ष्ये, इति प्रत्याख्यानमङ्गीकुर्वन्नस्मीति तेनोक्ते लाभाऽलाभज्ञा गुरव एवं भूयादित्यभिधायाऽन्यत्र विहरन्ति स्म।। १. वक्ष्ये - C। वक्षे - AHD ॥ २. मिहिर-स्तुहि = वृद्ध थोर ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org