________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते
इति हस्तिनीस्वरूपम्। इत्याकर्ण्य शास्त्रज्ञा अमी सूरय इति मन्यमानः स गृहं ययौ । एवं षष्ठेऽहनि कासु तिथिष्वेताः पद्मिन्यादयः सेविताः प्रीतिमत्यो भवन्तीति गुरुभिः पृष्टो न जानामीति स स्माह । अथ सूरयोऽभ्यधुः
नयन २ युग ४ शर ५ र्तु ६ बुध्र १२ दिग् १० नाग ८ संख्यास्तिथय इह र स्युः प्रीत चित्रिणीनां I ग्रह ९ तिथि १५ भुवनाख्या १४ द्वीपयुक्ताः करिण्यास्तदितरा ऽतिथयस्तु शङ्खिनीनां चतस्रः II १४ एतासामेष वशविधिः
मोर्वाकन्दरसेन जातिफलकं कुर्याद्वशां चित्रिणीं, पक्षौ माक्षिकसंयुतौ च करिणीं पातांपतभ्रामरौ । शेङ्खिन्यामशकृच्च गन्धतगरं मूलान्वितं श्रीफलं, ताम्बूलेन सह प्रदत्तमचिरान्मन्त्रैरमीभिः क्रमात् ॥ १५ ॥
मन्त्रा यथा— ॐ पच पच विहङ्ग विहङ्ग कामदेवाय स्वाहा, अनेन मन्त्रेण चित्रिणी । ॐ धिरिधिरि वश्यं कुरु कुरु स्वाहा, अनेन मन्त्रेण हस्तिनी । ॐ हर हर पच पच कामदेवाय स्वाहा, अनेन मन्त्रेण शङ्खिनी । हे कमल ! स्त्रीणामङ्गेषु स्मरावस्थितिं शृणुअङ्गुष्ठे पद-गुल्फ-जानु- जघने नाभौ च वक्षःस्थले । कक्षा-कण्ठ-कपोल-दन्त - वसने नेत्रेऽलिके मूर्धनि ॥ शुक्ला - शुक्लविभागतो मृगदृशामङ्गेष्वनङ्गस्थितिमूर्ध्वाऽधोगमनेन वामपदगां पक्षद्वये लक्षयेत् ॥ १६ 11 स्मरस्थाने मर्दिता मृगलोचनाः सद्यो वश्या स्युः । पुनर्हे कमल ! वयोविभागतो बालादिस्त्रीणां वशविधिरयमेव
बाला ताम्बूलमालाफलभरसरसाऽऽहारसन्मानहार्या, मुग्धाऽलङ्कारहारप्रमुखवितरणै रज्यते यौवनस्था । सद्भावा रम्यगाढोद्भवरतसुखिता मध्यमत्वेन लघ्वी, मृद्वालापैः प्रहृष्टा भवति गतवया गौरवेणातिदूरम् ॥ १७ ॥ पुनर्हे कमल ! रक्तविरक्तस्त्रीलक्षणं शृणु
स्त्री कान्तं वीक्ष्य नाभिं प्रकटयति मुहुर्विक्षिपन्ती कटाक्षान्, दोर्मूलं दर्शयन्ती रचयति कुसुमापीडमुत्क्षिप्य पाणिम् ।
१. DP मु.। पारापत-AH ॥ २. CD । शङ्खिन्या वशकृच्च -- मु. । ३. नेत्रेऽलके - इति उपदेशप्रासादे ||
२०८
Jain Education International
For Private & Personal Use Only
11
www.jainelibrary.org