Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 131
________________ ધર્મસંગ્રહ ભાગ-૪ / દ્વિતીય અધિકાર | શ્લોક-૬૧ योजनीया, तदेवंभूता एव प्रेक्षावतां स्तोतव्या इत्याभ्यामालापकाभ्यां स्तोतव्यसम्पदुक्ता । साम्प्रतमस्या हेतुसम्पदुच्यते 'आइगराणं तित्थगराणं सयंसंबुद्धाणं' आदिकरणशीलाः आदिकरणहेतवो वा आदिकराः, सकलनीतिनिबन्धनस्य श्रुतधर्मस्येति सामर्थ्याद्गम्यते, तेभ्यः, यद्यप्येषा द्वादशाङ्गी न कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति अभूच्च भवति च भविष्यति च [ नन्दीसूत्रे सू. ११८ ] इतिवचनात् नित्या द्वादशाङ्गी, तथाप्यर्थापेक्षया नित्यत्वं शब्दापेक्षया तु स्वस्वतीर्थे श्रुतधर्मादिकरत्वमविरुद्धम् । ૧૧૪ एतेऽपि कैवल्यावाप्यनन्तरापवर्गवादिभिरतीर्थकरा एवेष्यन्ते 'अकृत्स्नक्षये कैवल्याभावा'-दितिवचनादिति, तद्व्यपोहार्थमाह-'तीर्थकरेभ्यः तीर्यते संसारसमुद्रोऽनेनेति तीर्थं, तच्च प्रवचनाधारश्चतुर्विधः सङ्घः प्रथमगणधरो वा, तत्करणशीलास्तीर्थङ्कराः न चाकृत्स्नक्षये कैवल्यं न भवति, घातिकर्मक्षये अघातिकर्मभिः कैवल्यस्याबाधनात् एवं च ज्ञानकैवल्ये तीर्थकरत्वमुपपद्यते, मुक्तकैवल्ये तु तीर्थङ्करत्वमस्माभिरपि नेष्यते । एतेऽपि सदाशिवानुग्रहात्कैश्चिद्बोधवन्त इष्यन्ते, यदाहुः - 'महेशानुग्रहाद्द्बोधनियमौ [ ] इति' तन्निराकरणार्थमाह-‘स्वयंसंबुद्धेभ्यः, ' स्वयम् - आत्मना तथाभव्यत्वादिसामग्रीपरिपाकान्न तु परोपदेशात् सम्यग् - अविपर्ययेण बुद्धाः - अवगततत्त्वाः स्वयंसंबुद्धाः, तेभ्यः । यद्यपि भवान्तरेषु तथाविधगुरुसंनिधानायत्तावबोधास्ते अभूवन्, तथापि तीर्थङ्करजन्मनि परोपदेशनिरपेक्षा एव बुद्धाः, च तीर्थकरजन्मन्यपि लोकान्तिकत्रिदशवचनात् 'भयवं ! तित्थं पवत्तेहि' [आवश्यकनि. २१५ ] इत्येवंलक्षणाद्दीक्षां प्रतिपद्यन्ते, तथापि वैतालिकवचनानन्तरप्रवृत्तनरेन्द्रयात्रावत् स्वयमेव प्रव्रज्यां प्रतिपद्यन्ते । इदानीं स्तोतव्यसम्पद एव हेतुविशेषसम्पदुच्यते - 'पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं' पुरि शरीरे शयनात्पुरुषा विशिष्टकर्मोदयाद्विशिष्टसंस्थानवच्छरीरवासिनः सत्त्वास्तेषामुत्तमाः सहजतथाभव्यत्वादिभावतः श्रेष्ठाः पुरुषोत्तमाः तथाहि - आसंसारमेते परार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः सफलारम्भिणोऽदृढानुशयाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहु मानिनो गम्भीराशया इति, न खल्वसमारचितमपि जात्यं रत्नं समानमितरेण, न च समारचितोऽपि काचादिर्जात्यरत्नीभवति एवं च यदाहुः सौगताः 'नास्तीह कश्चिदभाजनं सत्त्वः ' [ ] इति 'सर्वे बुद्धा भविष्यन्ति' [ ] इति तत् प्रत्युक्तम् । एतेऽपि बाह्यार्थसंवादिसत्यवादिभिः संस्कृताचार्यशिष्यैर्निरुपमानस्तवार्हा एवेष्यन्ते 'हीनाधिकाभ्यामुपमा मृषे 'तिवचनात्, तद्व्यवच्छेदार्थमाह- 'पुरुषसिंहेभ्यः' पुरुषाः सिंहा इव प्रधानशौर्यादिगुणभावेन पुरुषसिंहाः यथा सिंहाः शौर्यादिगुणयोगिनः तथा भगवन्तोऽपि कर्मशत्रून् प्रति शूरतया, तदुच्छेदं

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218