Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૧૯૪
धर्मसंग्रह लाग-४ | द्वितीय अधिकार | दो-११ ___'वैयावृत्त्यकराणां' प्रवचनार्थं व्यापृतभावानां गोमुखयक्षाऽप्रतिचक्राप्रभृतीनाम्, 'शान्तिकराणां' सर्वलोकस्य, 'सम्यग्दृष्टिविषये समाधिकराणाम्, एषां सम्बन्धिनं षष्ठ्याः सप्तम्यर्थत्वादेतद्विषयमेतान् वा आश्रित्य, 'करोमि कायोत्सर्गम् ।'
अत्र च वन्दनादिप्रत्ययमित्यादि न पठ्यते, अपि तु अन्यत्रोच्छ्वसितेनेत्यादि, तेषामविरतत्वाद् इत्थमेव तद्भाववृद्धरुपकारदर्शनात् एतद्व्याख्या च पूर्ववत् नवरं स्तुतिर्वैयावृत्त्यकराणाम्, पुनस्तेनैव विधिनोपविश्य पूर्ववत् प्रणिपातदण्डकं पठित्वा मुक्ताशुक्तिमुद्रया प्रणिधानं कुर्वन्ति, यथा
“जय वीयराय! जगगुरू ! होउ ममं तुहप्पभावओ भयवं!। भवनिव्वेओ मग्गाणुसारिया इट्ठफलसिद्धी ।।१।। लोगविरुद्धच्चाओ, गुरुजणपूआ परत्थकरणं च । सुहगुरुजोगो तव्वयणसेवणा आभवमखंडा ।।२।।"
जय वीतराग! जगद्गुरो! इति भगवतस्त्रिलोकनाथस्य बुद्धौ सन्निधापनार्थमामन्त्रणं, भवतु जायतां, ममेत्यात्मनिर्देशः, तव प्रभावतस्तव सामर्थ्येन, भगवनिति पुनः सम्बोधनं भक्त्यतिशयख्यापनार्थम्, किं तदित्याह-'भवनिर्वेदः' संसारनिर्वेदः न हि भवादनिर्विण्णो मोक्षाय यतते, अनिर्विण्णस्य तत्प्रतिबन्धात् मोक्षे यत्नोऽयत्न एव, निर्जीवक्रियातुल्यत्वात् तथा मार्गानुसारिता' असद्ग्रहविजयेन तत्त्वानुसारिता, तथा 'इष्टफलसिद्धिः' अभिमतार्थनिष्पत्तिरैहलोकिकी, ययोपगृहीतस्य चित्तस्वास्थ्यं भवति, तस्माच्चोपादेयप्रवृत्तिः तथा 'लोकविरुद्धत्यागः' सर्वजननिन्दादिलोकविरुद्धानुष्ठानवर्जनम् यदाह“सव्वस्स चेव निंदा, विसेसओ तहय गुणसमिद्धाणं । उजुधम्मकरणहसणं, रीढा जणपूयणिज्जाणं ।।१।। बहुजणविरुद्धसंगो, देसादाचारलंघणं चेव । उव्वणभोओ अ तहा, दाणाइवि पयडमन्ने उ ।।२।। साहुवसणम्मि तोसो, सइ सामत्थम्मि अपडिआरो अ । एमाइआइँ इत्थं, लोगविरुद्धाइं णेआई ।।३।।" [पञ्चाशके २ । ८-१०]
गुरुजनस्य 'पूजा' उचितप्रतिपत्तिर्गुरुजनपूजा, गुरवश्च यद्यपि धर्माचार्या एवोच्यन्ते, तथाऽपीह मात्रापित्रादयोऽपि गृह्यन्ते । यदुक्तम्
“माता पिता कलाचार्य, एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ।।१।।" [योगबिन्दौ गा. ११०]

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218