Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 167
________________ धर्मसंग्रह भाग-४ / द्वितीय अधिकार / श्लोड- ५१ पूजनं=गन्धमाल्यादिभिरभ्यर्चनम्, तथा 'सक्कारवत्तियाए' सत्कारप्रत्ययं सत्कारनिमित्तम्, सत्कारःप्रवरवस्त्राभरणादिभिरभ्यर्चनम् । ननु च यतेः पूजनसत्कारौ अनुचितौ, द्रव्यस्तवत्वात्, श्रावकस्य तु साक्षात्पूजासत्कारकर्त्तुः कायोत्सर्गद्वारेण तत्प्रार्थना निष्फला, उच्यते साधोर्द्रव्यस्तवप्रतिषेधः स्वयंकरणमधिकृत्य, न पुनः कारणाऽनुमती, यतः - 'अकसिणपवत्तगाणं' [ ] इत्यादि, तथा - 'यस्तृणमयीमपि कुटीम् ' [ ] इत्यादि, ૧૫૦ तथा “जिनभवनं जिनबिम्बं, जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि " इत्युपदेशदानतः कारणसद्भावो, भगवतां च पूजासत्कारदर्शनात् प्रमोदेनानुमतिरपि, यदाह" सुव्वइ अ वइररिसिणा, कारवणंपि य अणुठ्ठियमिमस्स । वायगगंथेसु तहा, एयगया देसणा चेव । । १ । । " [पञ्चव.-१२२७] श्रावकस्तु सम्पादयन्नप्येतौ भावातिशयादधिकसम्पादनार्थं पूजासत्कारौ प्रार्थयमानो न निष्फलारम्भः तथा 'सम्माणवत्तियाए' सन्मानप्रत्ययं सन्माननिमित्तम्, सन्मानः = स्तुत्यादिभिर्गुणोन्नतिकरणम्, मानसः प्रीतिविशेष इत्यन्ये । अथ वन्दनादयः किंनिमित्तमित्याह - 'बोहिलाभवत्तियाए' बोधिलाभोऽर्हत्प्रणीतधर्मावाप्तिस्तत्प्रत्ययं तन्निमित्तम्, बोधिलाभोऽपि किंनिमित्तमित्याह - 'निरुवसग्गवत्तियाए' जन्माद्युपसर्गाभावेन निरुपसर्गो मोक्षस्तत्प्रत्ययं तन्निमित्तम् । ननु साधु श्रावकयोर्बोधिलाभोऽस्त्येव, तत् किं सतस्तस्य प्रार्थनया ? बोधिलाभमूलो मोक्षोऽप्यनभिलषणीय एव, उच्यते, क्लिष्टकर्मोदयवशेन बोधिलाभस्य प्रतिपातसम्भवात्, जन्मान्तरे च तस्यार्थ्यमानत्वात्, निरुपसर्गोऽपि तद्द्वारेण प्रार्थ्यत एवेति युक्तोऽनयोरुपन्यासः । अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धादिविकलस्य नाभिलषितार्थप्रसाधनायालमित्याह-- "सद्धाए मेहाए थिईए धारणाएं अणुप्पेहाए वड्ढमाणीए ठामि काउस्सग्गं" 'श्रद्धा' मिथ्यात्वमोहनीयकर्मक्षयोपशमादिजन्योदकप्रसादकमणिवच्चेतसः प्रसादजननी, तया श्रद्धया, नतु बलाभियोगादिना, एवं मेधया, न जडत्वेन, मेधा च सच्छास्त्रग्रहणपटुः पापश्रुतावज्ञाकारी ज्ञानावरणीय क्षयोपशमजश्चित्तधर्मः, अथवा मेधया = मर्यादावर्त्तितया, नासमञ्जसत्वेन, एवं धृत्या - मनः समाधिलक्षणया, न रागद्वेषाद्याकुलतया, एवं धारणया = 3 - अर्हद्गुणाविस्मरणरूपया, नतु तच्छून्यतया, एवमनुप्रेक्षया = अर्हद्गुणानामेव मुहुर्मुहुरनुस्मरणेन, न तद्वैकल्येन वर्द्धमानयेति श्रद्धादिभिः प्रत्येकमभिसम्बध्यते । श्रद्धादीनां क्रमोपन्यासो लाभापेक्षया, श्रद्धायां हि सत्यां मेधा, तद्भावे धृतिः, ततो धारणा,

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218