Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૧૮૨
धर्मसंग्रह भाग-४ / द्वितीय अधिकार | दो-११ तपःसिद्धो दृढप्रहारिवत् । यः कर्मक्षयेण ज्ञानावरणीयाद्यष्टकर्मनिर्मूलनेन सिद्धः स कर्मक्षयसिद्धो मरुदेवीवत् । अतः कर्मादिसिद्धव्यपोहेन कर्मक्षयसिद्धपरिग्रहार्थमाह 'बुद्धेभ्यः' अज्ञाननिद्राप्रसुप्ते जगति अपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः बुद्धत्वानन्तरं कर्मक्षयं कृत्वा सिद्धा इत्यर्थः, तेभ्यः ।
एते च संसारनिर्वाणोभयपरित्यागस्थितिमन्तः कैश्चिदिष्यन्ते, “न संसारे न निर्वाणे, स्थितो भ(भु)वनभूतये । अचिन्त्यः सर्वलोकानां, चिन्तारत्नाधिको महान् ।।१।।" इति वचनात्, एतन्निरासायाह-'पारगतेभ्यः' पारं पर्यन्तं संसारस्य प्रयोजनवातस्य वा गताः पारगतास्तेभ्यः ।
एते च यदृच्छावादिभिः कैश्चिद्दरिद्रराज्याप्तिवदक्रमसिद्धत्वेनाभिधीयन्ते, तद्व्युदासार्थमाह'परंपरगयाणं' परम्परया चतुर्दशगुणस्थानक्रमारोहरूपया अथवा कथञ्चित्कर्मक्षयोपशमादिसामग्र्या सम्यग्दर्शनम्, तस्मात् सम्यग्ज्ञानम्, तस्मात् सम्यक्चारित्रमित्येवंभूतया 'गताः' मुक्तिस्थान प्राप्ताः परम्परागतास्तेभ्यः ।
एते च कैश्चिदनियतदेशा अभ्युपगम्यन्ते“यत्र क्लेशक्षयस्तस्य, विज्ञानमवतिष्ठते । बाधा च सर्वथास्येह, तदभावान्न जातुचिद् ।।१।।" इति वचनात्, एतन्निरासायाह-‘लोकाग्रमुपगतेभ्यः' लोकाग्रमीषत्प्राग्भाराख्यायाः पृथिव्या उपरि क्षेत्रं तदुपसामीप्येन तदपराभिन्नदेशतया निःशेषकर्मक्षयपूर्वकं गताः प्राप्ताः, उक्तं च"जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का । 'अण्णोण्णमणाबाहं, चिटुंति सुही सुहं पत्ता ।।१।।” [आवश्यकनिर्युक्तौ ९७५] तेभ्यः । ननु क्षीणकर्मणो जीवस्य कथं लोकाग्रं यावद् गतिः? उच्यते, पूर्वप्रयोगादियोगात् । "पूर्वप्रयोगसिद्धेर्बन्धच्छेदादसङ्गभावाच्च । गतिपरिणामाच्च तथा, सिद्धस्योर्ध्वं गतिः सिद्धा ।।१।।" [प्रशमरतौ २९५] ननु सिद्धक्षेत्रात्परतोऽधस्तिर्यग्वा कस्मान गच्छति? अत्राप्युक्तम्“नाधो गौरवविगमादसङ्गभावाच्च गच्छति विमुक्तः । लोकान्तादपि न परं, प्लवक इवोपग्रहाभावात् ।।१।।

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218