Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 189
________________ ૧૭૨ धर्मसंग्रह भाग-४ | द्वितीय अधिकार | cs-५१ ઉત્કૃષ્ટ અભિલાષ થાય તે મહાત્મા અવશ્ય શક્તિના પ્રકર્ષથી સિદ્ધિપદના ઉપાયભૂત ભગવાનના વચનનું અવલંબન લઈને સદા યત્ન કરે છે. આ રીતે ભાવન કરીને શ્રાવક મોક્ષપથને અનુકૂળ પ્રયત્ન કરવાની શક્તિનો સંચય કરે છે. टी : एवं चतुर्विंशतिस्तवमुक्त्वा सर्वलोक एवार्हच्चैत्यानां वन्दनाद्यर्थं कायोत्सर्गकरणायेदं पठति पठन्ति वा "सव्वलोए अरिहंतचेइयाणं करेमि काउस्सग्गमित्यादि वोसिरामीति यावत्", व्याख्या पूर्ववत्, नवरं-सर्वश्चासौ लोकश्च अधऊर्ध्वतिर्यग्भेदस्तस्मिंस्त्रैलोक्य इत्यर्थः, अधोलोके हि चमरादिभवनेषु, तिर्यग्लोके द्वीपाचलज्योतिष्कविमानादिषु, ऊर्ध्वलोके सौधर्मादिषु सन्त्येवाहच्चैत्यानि ततश्च मौलचैत्यं समाधिकारणमिति मूलप्रतिमायाः प्राक् स्तुतिरुक्ता, इदानीं सर्वे अर्हन्तस्तद्गुणा इति सर्वलोकग्रहः, तदनुसारेण सर्वतीर्थकरसाधारणी स्तुतिः अन्यथा अन्यकायोत्सर्गेऽन्या स्तुतिरिति न सम्यग, अतिप्रसङ्गात्, इति सर्वतीर्थकराणां स्तुतिरुक्ता, एष सर्वलोकस्थापनार्हत्स्तवरूपः पञ्चमोऽधिकारः । इदानीं येन ते भगवन्तस्तदभिहिताश्च भावाः स्फुटमुपलभ्यन्ते तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्तनम्, तत्रापि तत्प्रणेतॄन् भगवतस्तत्प्रथमं स्तौति"पुक्खरवरदीवड्डे, धायइसंडे य जंबुदीवे य। भरहेरवयविदेहे, धम्माइगरे नमंसामि।।१।।" भरतं भरतक्षेत्रम, ऐरवतमैरवतक्षेत्रम, विदेहमिति भीमो भीमसेन इति न्यायात् महाविदेहक्षेत्रं एवं समाहारद्वन्द्वः तेषु भरतैरवतविदेहेषु, 'धर्मस्य' श्रुतधर्मस्य, 'आदिकरान्' सूत्रतः प्रथमकरणशीलान् 'नमस्यामि' स्तुवे, क्वतानि भरतैरवतमहाविदेहक्षेत्राणि? इत्याह-पुष्कराणि पद्मानि, तैर्वरः पुष्करवरः, स चासौ द्वीपश्च पुष्करवरद्वीपस्तृतीयो द्वीपस्तस्यार्द्ध मानुषोत्तरचलादर्वाग्भागवर्ति, तत्र द्वे भरते द्वे ऐरवते द्वे महाविदेहे तथा धातकीनां खण्डानि वनानि यस्मिन् स धातकीखण्डो द्वीपस्तस्मिन् द्वे भरते द्वे ऐरवते द्वे महाविदेहे, जम्ब्वा उपलक्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीपः, अत्रैकं भरतमेकमैरवतमेकं च महाविदेहमित्येताः पञ्चदश कर्मभूमयः, शेषास्त्वकर्मभूमयः, यदाह-'भरतैरवतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः' [श्रीतत्त्वा० अ. ३-१६] महत्तरक्षेत्रप्राधान्याङ्गीकरणाच्च पश्चानुपूर्व्या निर्देशः धर्मादिकरत्वं च वचनापौरुषेयत्वनिराकरणादेव व्यक्तम्, उक्तं च-'इणमच्चंतविरुद्धं, वयणं चापोरुसेअं च' [ ] त्ति । . नन्वेवमपि कथं धर्मादिकरत्वं भगवताम्? 'तप्पुब्विआ अरहया' [आवश्यकनिर्युक्तौ गा. ५६७]

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218