________________
૧૭૨
धर्मसंग्रह भाग-४ | द्वितीय अधिकार | cs-५१ ઉત્કૃષ્ટ અભિલાષ થાય તે મહાત્મા અવશ્ય શક્તિના પ્રકર્ષથી સિદ્ધિપદના ઉપાયભૂત ભગવાનના વચનનું અવલંબન લઈને સદા યત્ન કરે છે. આ રીતે ભાવન કરીને શ્રાવક મોક્ષપથને અનુકૂળ પ્રયત્ન કરવાની શક્તિનો સંચય કરે છે. टी :
एवं चतुर्विंशतिस्तवमुक्त्वा सर्वलोक एवार्हच्चैत्यानां वन्दनाद्यर्थं कायोत्सर्गकरणायेदं पठति पठन्ति वा
"सव्वलोए अरिहंतचेइयाणं करेमि काउस्सग्गमित्यादि वोसिरामीति यावत्", व्याख्या पूर्ववत्, नवरं-सर्वश्चासौ लोकश्च अधऊर्ध्वतिर्यग्भेदस्तस्मिंस्त्रैलोक्य इत्यर्थः, अधोलोके हि चमरादिभवनेषु, तिर्यग्लोके द्वीपाचलज्योतिष्कविमानादिषु, ऊर्ध्वलोके सौधर्मादिषु सन्त्येवाहच्चैत्यानि ततश्च मौलचैत्यं समाधिकारणमिति मूलप्रतिमायाः प्राक् स्तुतिरुक्ता, इदानीं सर्वे अर्हन्तस्तद्गुणा इति सर्वलोकग्रहः, तदनुसारेण सर्वतीर्थकरसाधारणी स्तुतिः अन्यथा अन्यकायोत्सर्गेऽन्या स्तुतिरिति न सम्यग, अतिप्रसङ्गात्, इति सर्वतीर्थकराणां स्तुतिरुक्ता, एष सर्वलोकस्थापनार्हत्स्तवरूपः पञ्चमोऽधिकारः ।
इदानीं येन ते भगवन्तस्तदभिहिताश्च भावाः स्फुटमुपलभ्यन्ते तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्तनम्, तत्रापि तत्प्रणेतॄन् भगवतस्तत्प्रथमं स्तौति"पुक्खरवरदीवड्डे, धायइसंडे य जंबुदीवे य। भरहेरवयविदेहे, धम्माइगरे नमंसामि।।१।।"
भरतं भरतक्षेत्रम, ऐरवतमैरवतक्षेत्रम, विदेहमिति भीमो भीमसेन इति न्यायात् महाविदेहक्षेत्रं एवं समाहारद्वन्द्वः तेषु भरतैरवतविदेहेषु, 'धर्मस्य' श्रुतधर्मस्य, 'आदिकरान्' सूत्रतः प्रथमकरणशीलान् 'नमस्यामि' स्तुवे, क्वतानि भरतैरवतमहाविदेहक्षेत्राणि? इत्याह-पुष्कराणि पद्मानि, तैर्वरः पुष्करवरः, स चासौ द्वीपश्च पुष्करवरद्वीपस्तृतीयो द्वीपस्तस्यार्द्ध मानुषोत्तरचलादर्वाग्भागवर्ति, तत्र द्वे भरते द्वे ऐरवते द्वे महाविदेहे तथा धातकीनां खण्डानि वनानि यस्मिन् स धातकीखण्डो द्वीपस्तस्मिन् द्वे भरते द्वे ऐरवते द्वे महाविदेहे, जम्ब्वा उपलक्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीपः, अत्रैकं भरतमेकमैरवतमेकं च महाविदेहमित्येताः पञ्चदश कर्मभूमयः, शेषास्त्वकर्मभूमयः, यदाह-'भरतैरवतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः' [श्रीतत्त्वा० अ. ३-१६] महत्तरक्षेत्रप्राधान्याङ्गीकरणाच्च पश्चानुपूर्व्या निर्देशः धर्मादिकरत्वं च वचनापौरुषेयत्वनिराकरणादेव व्यक्तम्, उक्तं च-'इणमच्चंतविरुद्धं, वयणं चापोरुसेअं च' [ ] त्ति । .
नन्वेवमपि कथं धर्मादिकरत्वं भगवताम्? 'तप्पुब्विआ अरहया' [आवश्यकनिर्युक्तौ गा. ५६७]