________________
ધર્મસંગ્રહ ભાગ-૪ / દ્વિતીય અધિકાર | શ્લોક-૧
૧૭૩ इति वचनात् वचनस्यानादित्वात् ? नैवम्, बीजाङ्कुरवत्तदुपपत्तेः, बीजाद्धि अङ्कुरो भवति, अङ्कुराच्चबीजमिति एवं भगवतां पूर्वजन्मनि श्रुतधर्माभ्यासात्तीर्थकरत्वम्, तीर्थकृतां च श्रुतधर्मादिकरत्वमदुष्टमेव न चैवमपि वचनपूर्वकमेव सर्वज्ञत्वमिति (न) नियमः, मरुदेव्यादौ व्यभिचारादिति वाच्यम् इत्थमपि शब्दरूपवचनपूर्वकत्वनियमाभावेऽपि अर्थपरिज्ञानरूपवचनपूर्वकत्वनियमस्याव्याहतत्वादित्यलं प्रसङ्गेन ।
एवं श्रुतधर्मादिकराणां स्तुतिरुक्ता, एष षष्ठोऽधिकारः, इदानीं श्रुतधर्मस्याह“तमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिअस्स । .सीमाधरस्स वंदे, पप्फोडियमोहजालस्स ।।२।।"
तमोऽज्ञानम्, तदेव तिमिरम्, अथवा बद्ध-स्पृष्ट-निधत्तं ज्ञानावरणीयं कर्म तमः, निकाचितं तिमिरम्, ततस्तमस्तिमिरस्य, तमस्तिमिरयोर्वा पटलं वृन्दम्, तद्विध्वंसयति विनाशयतीति नन्द्यादित्वादने तमस्तिमिरपटलविध्वंसनस्तस्य, अज्ञाननिरासेनैवास्य प्रवृत्तेः 'सुरगणैः' चतुर्विधामरनिकायैः 'नरेन्द्रैः' चक्रवर्त्यादिभिः 'महितः' पूजितस्तस्य आगममहिमां हि कुर्वन्त्येव सुरादयः, सीमां मर्यादां धारयतीति सीमाधरस्तस्य, श्रुतधर्मस्य इति विशेष्यम्, ततः कर्मणि द्वितीया, तस्याश्च क्वचिद्वितीयादेः [श्रीसि० ८-३-१३४] इति प्राकृतसूत्रात्षष्ठी, अतस्तं वन्दे तस्य वा यन्माहात्म्यं तद्वन्दे इति सम्बन्धे षष्ठी, अथवा तस्य वन्दे वन्दनं करोमीति, प्रकर्षेण स्फोटितं विदारितं मोहजालं मिथ्यात्वादिरूपं येन स तथा तस्य श्रुतधर्मे हि सति विवेकिनो मोहजालं विलयमुपयात्येव ।
इत्थं श्रुतमभिवन्द्य तस्यैव गुणोपदर्शनद्वारेणाप्रमादगोचरतां प्रतिपादयन्नाह"जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स । को देवदाणवनरिंदगणच्चियस्स, धम्मस्स सारमुवलब्भ करे पमायं ।।३।।” कः? सचेतनो धर्मस्य'श्रुतधर्मस्य 'सार' सामर्थ्य उपलभ्य' विज्ञाय, श्रुतधर्मोदितेऽनुष्ठाने 'प्रमादम्' अनादरं कुर्यात्, न कश्चिद् कुर्यादित्यर्थः, किंविशिष्टस्य श्रुतधर्मस्य? जातिर्जन्म, जरा विस्रसा, मरणं प्राणनाशः, शोको मानसो दुःखविशेषः, तान् प्रणाशयति अपनयति जातिजरामरणशोकप्रणाशनस्तस्य, श्रुतधर्मस्यानुष्ठाद्धि जात्यादयः प्रणश्यन्त्येव, अनेनास्यानर्थप्रतिघातित्वमुक्तम्, कल्यमारोग्यमणति शब्दयतीति कल्याणम्, पुष्कलं सम्पूर्णम्, न च तदल्पम् किन्तु विशालं विस्तीर्णम्, एवंभूतं सुखमावहति प्रापयतीति कल्याणपुष्कलविशालसुखावहस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य विशिष्टार्थप्रापकत्वमाह, देवानां दानवानां नरेन्द्राणां च गणैरचिंतस्य पूजितस्य, सुरगणनरेन्द्रमहितस्येत्यस्यैव निगमनं देवदाणवेत्यादि, यतश्चैवमतः