Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 191
________________ १७४ "सिद्धे भो पयओ नमो जिणमए नंदी सया संजमे, देवंनागसुवण्णकिन्नरगणस्सब्भूयभावच्चिए । लोगो जत्थ पइट्ठिओ जगमिणं तेलुक्कमच्चासुरं, धम्म वड्ढ सासओ विजयओ धम्मुत्तरं वड्डउ ।।४।।” 'सिद्धः ' फलाव्यभिचारेण प्रतिष्ठितः, अथवा सिद्धः सकलनयव्यापकत्वेन त्रिकोटीपरिशुद्धत्वेन च प्रख्यातस्तस्मिन्, भो इत्यतिशायिनामामन्त्रणम्, पश्यन्तु भवन्तः, प्रयतोऽहं यथाशक्त्येतावन्तं कालं प्रकर्षेण यतः, इत्थं परसाक्षिकं प्रयतो भूत्वा पुनर्नमस्करोति 'नमो जिणमए' नमो जिनमताय, प्राकृतत्वाच्चतुर्थ्याः सप्तमी, कुर्वे इति शेषः, प्रयतो भूत्वा जिनमताय नमस्करोमीत्यर्थः अस्मिंश्च सति 'नन्दि: ' समृद्धि : 'सदा' सर्वकालम्, 'संयमे' चारित्रे भूयात् उक्तं च- 'पढमं नाणं तओ दया' [दशवैकालिके ४-१०] किंविशिष्टे संयमे ? 'देवनागसुपर्णकिन्नरगणैः सद्भूतभावेनार्चिते' देवा वैमानिनः, नागा धरणादयः, सुपर्णा गरुडाः, किन्नरा व्यन्तरविशेषाः, उपलक्षणं शेषाणाम्, देवमित्यनुस्वारश्छन्दः पूरणे, तथा च संयमवन्तोऽर्च्यन्त एव देवादिभिः । यत्र जिनमते, किं यत्र ? लोकनं लोको ज्ञानम्, प्रतिष्ठितस्तद्वशीभूतः, तथा जगदिदं ज्ञेयतया प्रतिष्ठितमिति योग:, केचिन्मनुष्यलोकमेव जगन्मन्यन्ते अत आह-' ' त्रैलोक्यमर्त्यासुरम्, आधाराधेयरूपम्, अयमित्थंभूतो 'धर्मः ' श्रुतधर्मो 'वर्द्धतां ' वृद्धिमुपयातु, शाश्वतमिति क्रियाविशेषणं शाश्वतमप्रच्युत्या, वर्द्धतामिति, 'विजयतः ' परप्रवादिविजयेन, 'धर्मोत्तरं ' चारित्रधर्मोत्तरं चारित्रधर्मप्राधान्यं यथा स्यादित्यर्थः, 'वर्द्धतां' पुनर्वृद्ध्यभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थम् । तथा च तीर्थकरनामकर्म्महेतून् प्रतिपादयतोक्तम् । ‘अपुव्वनाणगहणे' [आवश्यकनिर्युक्तौ १८१] इति । प्रणिधानमेतन्मोक्षबीजकल्पं परमार्थतोऽनाशंसारूपमेवेति प्रणिधानं कृत्वा श्रुतस्यैव वन्दनाद्यर्थं कायोत्सर्गार्थं पठति पठन्ति वा धर्मसंग्रह भाग-४ / द्वितीय अधिकार / श्लो-५१ "सुअस्स भगवओ करेमि काउस्सग्गमित्यादि वोसिरामीति यावत् । " अर्थः पूर्ववत्, नवरं'श्रुतस्येति प्रवचनस्य सामायिकादेर्बिन्दुसारपर्यन्तस्य 'भगवतो' यशोमाहात्म्यादियुक्तस्य, ततः कायोत्सर्गकरणम्, पूर्ववत्पारयित्वा श्रुतस्य स्तुतिं पठति । “सुअनाणत्थयरूवो, अहिगारो होइ एस सत्तमओ । इह पय संपय सोलस, नवुत्तरा वण्ण दुन्निसया ।। १ ।। " चतुर्थो दण्डकः । टीडार्थ : एवं चतुर्विंशति ..... चतुर्थो दण्डकः । खा रीते पूर्वमां धुं जे रीते, यतुर्विंशति स्तवने उहीने=

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218