Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 179
________________ ૧૬૨ . धर्मसंग्रह भाग-४ | द्वितीय अधिकार | Cोs-५१ कीर्तनं कृत्वा चेतःशुद्ध्यर्थं प्रणिधानमाह"एवं मए अभिथुआ, विहुअरयमला पहीणजरमरणा। चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु।।५।।" ‘एवं' अनन्तरोदितेन विधिना 'मये'त्यात्मनिर्देशः, 'अभिष्टुता' आभिमुख्येन स्तुताः स्वनामभिः कीर्तिता इत्यर्थः, किंविशिष्टास्ते? 'विधूतरजोमलाः' रजश्च मलं च रजोमले विधूते प्रकम्पिते अनेकार्थत्वादपनीते रजोमले यस्तै विधूतरजोमलाः, बध्यमानं च कर्म रजः, पूर्वबद्धं तु मलम्, अथवा बद्धं रजो निकाचितं मलम्, अथवा ऐर्यापथं रजः साम्परायिकं मलमिति । यतश्चैवंभूता अत एव 'प्रक्षीणजरामरणाः' कारणाभावात् 'चतुर्विंशतिरपि', अपिशब्दादन्येऽपि, 'जिनवराः' श्रुतादिजिनेभ्यः प्रकृष्टाः , ते च 'तीर्थकरा' इति पूर्ववत्, 'मे' मम, किम् ।? 'प्रसीदन्तु' प्रसादपरा भवन्तु । ते च वीतरागत्वाद्यद्यपि स्तुतास्तोषम्, निन्दिताश्च द्वेषं न यान्ति, तथाऽपि स्तोता स्तुतिफलं निन्दकश्च निन्दाफलमाप्नोत्येव, यथा चिन्तामणिमन्त्राधाराधकः । यदुक्तं वीतरागस्तवे श्रीहेमसूरिभिः “अप्रसन्नात् कथं प्राप्यं, फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः? ।।१।।" [वीतराग० १९।३] इति । अथ यदि न प्रसीदन्ति तत्किं प्रसिदन्त्विति वृथा प्रलापेन?, नैवम् भक्त्यतिशयेन एवमभिधानेऽपि न दोषः । यदाह"क्षीणक्लेशा एते, न हि प्रसीदन्ति न स्तवोऽपि वृथा । तत्स्तवभावविशुद्धेः, प्रयोजनं कर्मविगम इति ।।१।।" तथा "कित्तियवंदियमहिआ, जेए लोगस्स उत्तमा सिद्धा। आरोग्गबोहिलाभं, समाहिवरमुत्तमं दिंतु।।६।।" 'कीर्तिताः' स्वनामभिः प्रोक्ताः, 'वन्दिताः' त्रिविधयोगेन सम्यग् स्तुताः, 'महिताः' पुष्पादिभिः पूजिता । मइआ इति पाठान्तरम् तत्र मया, क एते? इत्याह ‘य एते' 'लोकस्य' प्राणिवर्गस्य कर्ममलकलङ्काभावेनोत्तमाः प्रकृष्टाः, सिद्ध्यन्ति स्म सिद्धाः कृतकृत्या इत्यर्थः, अरोगस्य भाव आरोग्यं सिद्धत्वम् तदर्थं बोधिलाभः अर्हत्प्रणीतधर्मप्राप्तिरारोग्यबोधिलाभः, स ह्यनिदानो मोक्षायैव भवति तम् तदर्थं च समाधिवरं वरसमाधि परमस्वास्थ्यरूपं भावसमाधिमित्यर्थः, असावपि तारतम्यभेदादनेकधैव अत आह-'उत्तमं' सर्वोत्कृष्टम्, 'ददतु' प्रयच्छन्तु, एतच्च भक्त्योच्यते, यत उक्तम्

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218