________________
૧૬૨
.
धर्मसंग्रह भाग-४ | द्वितीय अधिकार | Cोs-५१ कीर्तनं कृत्वा चेतःशुद्ध्यर्थं प्रणिधानमाह"एवं मए अभिथुआ, विहुअरयमला पहीणजरमरणा। चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु।।५।।" ‘एवं' अनन्तरोदितेन विधिना 'मये'त्यात्मनिर्देशः, 'अभिष्टुता' आभिमुख्येन स्तुताः स्वनामभिः कीर्तिता इत्यर्थः, किंविशिष्टास्ते? 'विधूतरजोमलाः' रजश्च मलं च रजोमले विधूते प्रकम्पिते अनेकार्थत्वादपनीते रजोमले यस्तै विधूतरजोमलाः, बध्यमानं च कर्म रजः, पूर्वबद्धं तु मलम्, अथवा बद्धं रजो निकाचितं मलम्, अथवा ऐर्यापथं रजः साम्परायिकं मलमिति । यतश्चैवंभूता अत एव 'प्रक्षीणजरामरणाः' कारणाभावात् 'चतुर्विंशतिरपि', अपिशब्दादन्येऽपि, 'जिनवराः' श्रुतादिजिनेभ्यः प्रकृष्टाः , ते च 'तीर्थकरा' इति पूर्ववत्, 'मे' मम, किम् ।? 'प्रसीदन्तु' प्रसादपरा भवन्तु । ते च वीतरागत्वाद्यद्यपि स्तुतास्तोषम्, निन्दिताश्च द्वेषं न यान्ति, तथाऽपि स्तोता स्तुतिफलं निन्दकश्च निन्दाफलमाप्नोत्येव, यथा चिन्तामणिमन्त्राधाराधकः । यदुक्तं वीतरागस्तवे श्रीहेमसूरिभिः
“अप्रसन्नात् कथं प्राप्यं, फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः? ।।१।।" [वीतराग० १९।३] इति ।
अथ यदि न प्रसीदन्ति तत्किं प्रसिदन्त्विति वृथा प्रलापेन?, नैवम् भक्त्यतिशयेन एवमभिधानेऽपि न दोषः । यदाह"क्षीणक्लेशा एते, न हि प्रसीदन्ति न स्तवोऽपि वृथा । तत्स्तवभावविशुद्धेः, प्रयोजनं कर्मविगम इति ।।१।।"
तथा
"कित्तियवंदियमहिआ, जेए लोगस्स उत्तमा सिद्धा। आरोग्गबोहिलाभं, समाहिवरमुत्तमं दिंतु।।६।।" 'कीर्तिताः' स्वनामभिः प्रोक्ताः, 'वन्दिताः' त्रिविधयोगेन सम्यग् स्तुताः, 'महिताः' पुष्पादिभिः पूजिता । मइआ इति पाठान्तरम् तत्र मया, क एते? इत्याह ‘य एते' 'लोकस्य' प्राणिवर्गस्य कर्ममलकलङ्काभावेनोत्तमाः प्रकृष्टाः, सिद्ध्यन्ति स्म सिद्धाः कृतकृत्या इत्यर्थः, अरोगस्य भाव आरोग्यं सिद्धत्वम् तदर्थं बोधिलाभः अर्हत्प्रणीतधर्मप्राप्तिरारोग्यबोधिलाभः, स ह्यनिदानो मोक्षायैव भवति तम् तदर्थं च समाधिवरं वरसमाधि परमस्वास्थ्यरूपं भावसमाधिमित्यर्थः, असावपि तारतम्यभेदादनेकधैव अत आह-'उत्तमं' सर्वोत्कृष्टम्, 'ददतु' प्रयच्छन्तु, एतच्च भक्त्योच्यते, यत उक्तम्