________________
ધર્મસંગ્રહ ભાગ-૪ / દ્વિતીય અધિકાર | શ્લોક-૬૧ योजनीया, तदेवंभूता एव प्रेक्षावतां स्तोतव्या इत्याभ्यामालापकाभ्यां स्तोतव्यसम्पदुक्ता ।
साम्प्रतमस्या हेतुसम्पदुच्यते 'आइगराणं तित्थगराणं सयंसंबुद्धाणं' आदिकरणशीलाः आदिकरणहेतवो वा आदिकराः, सकलनीतिनिबन्धनस्य श्रुतधर्मस्येति सामर्थ्याद्गम्यते, तेभ्यः, यद्यप्येषा द्वादशाङ्गी न कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति अभूच्च भवति च भविष्यति च [ नन्दीसूत्रे सू. ११८ ] इतिवचनात् नित्या द्वादशाङ्गी, तथाप्यर्थापेक्षया नित्यत्वं शब्दापेक्षया तु स्वस्वतीर्थे श्रुतधर्मादिकरत्वमविरुद्धम् ।
૧૧૪
एतेऽपि कैवल्यावाप्यनन्तरापवर्गवादिभिरतीर्थकरा एवेष्यन्ते 'अकृत्स्नक्षये कैवल्याभावा'-दितिवचनादिति, तद्व्यपोहार्थमाह-'तीर्थकरेभ्यः तीर्यते संसारसमुद्रोऽनेनेति तीर्थं, तच्च प्रवचनाधारश्चतुर्विधः सङ्घः प्रथमगणधरो वा, तत्करणशीलास्तीर्थङ्कराः न चाकृत्स्नक्षये कैवल्यं न भवति, घातिकर्मक्षये अघातिकर्मभिः कैवल्यस्याबाधनात् एवं च ज्ञानकैवल्ये तीर्थकरत्वमुपपद्यते, मुक्तकैवल्ये तु तीर्थङ्करत्वमस्माभिरपि नेष्यते ।
एतेऽपि सदाशिवानुग्रहात्कैश्चिद्बोधवन्त इष्यन्ते, यदाहुः - 'महेशानुग्रहाद्द्बोधनियमौ [ ] इति' तन्निराकरणार्थमाह-‘स्वयंसंबुद्धेभ्यः, ' स्वयम् - आत्मना तथाभव्यत्वादिसामग्रीपरिपाकान्न तु परोपदेशात् सम्यग् - अविपर्ययेण बुद्धाः - अवगततत्त्वाः स्वयंसंबुद्धाः, तेभ्यः । यद्यपि भवान्तरेषु तथाविधगुरुसंनिधानायत्तावबोधास्ते अभूवन्, तथापि तीर्थङ्करजन्मनि परोपदेशनिरपेक्षा एव बुद्धाः, च तीर्थकरजन्मन्यपि लोकान्तिकत्रिदशवचनात् 'भयवं ! तित्थं पवत्तेहि' [आवश्यकनि. २१५ ] इत्येवंलक्षणाद्दीक्षां प्रतिपद्यन्ते, तथापि वैतालिकवचनानन्तरप्रवृत्तनरेन्द्रयात्रावत् स्वयमेव प्रव्रज्यां प्रतिपद्यन्ते ।
इदानीं स्तोतव्यसम्पद एव हेतुविशेषसम्पदुच्यते - 'पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं' पुरि शरीरे शयनात्पुरुषा विशिष्टकर्मोदयाद्विशिष्टसंस्थानवच्छरीरवासिनः सत्त्वास्तेषामुत्तमाः सहजतथाभव्यत्वादिभावतः श्रेष्ठाः पुरुषोत्तमाः तथाहि - आसंसारमेते परार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः सफलारम्भिणोऽदृढानुशयाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहु मानिनो गम्भीराशया इति, न खल्वसमारचितमपि जात्यं रत्नं समानमितरेण, न च समारचितोऽपि काचादिर्जात्यरत्नीभवति एवं च यदाहुः सौगताः
'नास्तीह कश्चिदभाजनं सत्त्वः ' [ ] इति 'सर्वे बुद्धा भविष्यन्ति' [ ] इति तत् प्रत्युक्तम् ।
एतेऽपि बाह्यार्थसंवादिसत्यवादिभिः संस्कृताचार्यशिष्यैर्निरुपमानस्तवार्हा एवेष्यन्ते 'हीनाधिकाभ्यामुपमा मृषे 'तिवचनात्, तद्व्यवच्छेदार्थमाह- 'पुरुषसिंहेभ्यः' पुरुषाः सिंहा इव प्रधानशौर्यादिगुणभावेन पुरुषसिंहाः यथा सिंहाः शौर्यादिगुणयोगिनः तथा भगवन्तोऽपि कर्मशत्रून् प्रति शूरतया, तदुच्छेदं