________________
ધર્મસંગ્રહ ભાગ-૪ / દ્વિતીય અધિકાર | ોક-૧
૧૧૫
प्रति क्रूरतया, क्रोधादीन् प्रत्यसहनतया, रागादीन् प्रति वीर्ययोगेन, तपःकर्म प्रति धीरतया ख्याताः तथा एषामवज्ञा परीषहेषु, न भयमुपसर्गेभ्यः, न चिन्ताऽपीन्द्रियवर्गे, न खेदः सँयमाध्वनि, निष्पकम्पता सद्ध्याने न चैवमुपमा मृषा, तद्द्वारेण तदसाधारणगुणाभिधानादिति ।
एते च सुचारुशिष्यैः सजातीयोपमायोगिन एवेष्यन्ते, विजातीयेनोपमायां तत्सदृशधर्मापत्त्या पुरुषत्वाद्यभावप्राप्तिः, यदाहुस्ते-'विरुद्धोपमायोगे तद्धर्मापत्त्या तदवस्तुत्व' मिति, तद्व्यपोहायाह'पुरुषवरपुण्डरीकेभ्यः' पुरुषा वरपुण्डरीकाणीव संसारजलासङ्गादिना धर्मकलापेन पुरुषवरपुण्डरीकाणि तेभ्यः यथा हि पुण्डरीकाणि पङ्के जातानि जले वर्धितानि तदुभयं विहायोपरि वर्त्तन्ते, प्रकृतिसुन्दराणि च भवन्ति, निवासो भुवनलक्ष्म्याः , आयतनं चक्षुराद्यानन्दस्य, प्रवरगुणयोगतो विशिष्टतिर्यग्नरामरैः सेव्यन्ते, सुखहेतवो भवन्ति, तथैतेऽपि भगवन्तः कर्मपके जाताः दिव्यभोगजलेन वर्धिता, उभयं विहाय वर्त्तन्ते, सुन्दराश्चातिशययोगेन, निवासो गुणसम्पदः, हेतवः परमानन्दस्य, केवलादिगुणभावेन भव्यसत्त्वैः सेव्यन्ते, निर्वाणनिबन्धनं च जायन्त इति, नैवं भिन्नजातीयोपमायोगेऽप्यर्थतो विरोधाभावेन यथोदितदोषसम्भव इति, यदि तु विजातीयोपमायोगे तद्धर्मापत्तिरापाद्यते तर्हि सिंहादिसजातीयोपमायोगे तद्धर्माणां पशुत्वादीनामप्यापत्तिः स्यादिति । __एतेऽपि यथोत्तरं गुणक्रमाभिधानवादिभिः सुरगुरुविनेयीनगुणोपमायोग एवाधिकगुणोपमारे इष्यन्ते । 'अभिधानक्रमाभावेऽभिधेयमपि तथा अक्रमवदसदिति' वचनाद्, एतनिरासायाह'पुरुषवरगन्धहस्तिभ्यः' पुरुषा वरगन्धहस्तिन इव गजेन्द्रा
इव क्षुद्रगजनिराकरणादिना धर्मसाम्येन पुरुषवरगन्धहस्तिनः, यथा गन्धहस्तिनां गन्धेनैव तद्देशविहारिणः क्षुद्रशेषगजा भज्यन्ते, तद्वदीतिपरचक्रदुर्भिक्षमारिप्रभृतयः सर्व एवोपद्रवगजा अचिन्त्यपुण्यानुभावतो भगवद्विहारपवनगन्धादेव भज्यन्त इति न चैवमभिधानक्रमाभावे अभिधेयमक्रमवदसदिति वाच्यम्, सर्वगुणानामेकत्रान्योऽन्यसंवलितत्वेनावस्थानात्, तेषां तु यथारुचिस्तोत्राभिधाने न दोषः । . एवं पुरुषोत्तमत्वादिना प्रकारेण स्तोतव्यसम्पद एव सामान्येनोपयोगसम्पदमाह- लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोअगराणं' समुदायेष्वपि प्रवृत्ताः शब्दा अनेकधाऽवयवेष्वपि प्रवर्त्तन्त इति न्यायाद्यद्यपि लोकशब्देन तत्त्वतः पञ्चास्तिकाया उच्यन्ते, “धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ।।१।।" इति वचनात्, तथापीह लोकशब्देन भव्यसत्त्वलोक एव परिगृह्यते, सजातीयोत्कर्ष एवोत्तमत्वोपपत्तेः