________________
૧૧૬
धर्मसंग्रह भाग-४ / द्वितीय अधिार | दो-५१ अन्यथाऽभव्यापेक्षया सर्वभव्यानामप्युत्तमत्वान्नैषामतिशय उक्तः स्यात् ततश्च भव्यसत्त्वलोकस्य सकलकल्याणनिबन्धनतथाभव्यत्वभावेनोत्तमाः लोकोत्तमास्तेभ्यः । __ तथा 'लोकनाथेभ्यः' । इह लोकशब्देन बीजाधानादिना संविभक्तो रागाद्युपद्रवेभ्यो रक्षणीयो विशिष्टो भव्यलोकः परिगृह्यते, अस्मिन्नेव नाथत्वोपपत्तेः, योगक्षेमकृन्नाथः' [ ] इति वचनात् तदिह येषामेव बीजाधानोभेदपोषणैर्योगः, क्षेमञ्च तत्तदुपद्रवाद्यभावेन, त एवेह भव्या लोकशब्देन गृह्यन्ते न चैते योगक्षेमे सकलभव्यसत्त्वविषये कस्यचित्सम्भवतः, सर्वेषां मुक्तिप्रसङ्गात्, तस्मादुक्तस्यैव लोकस्य नाथा इति ।
तथा 'लोकहितेभ्यः' इह लोकशब्देन सकल एव सांव्यवहारिकादिभेदभित्रः प्राणिवर्गो गृह्यते, तस्मै सम्यग्दर्शनप्ररूपणरक्षणयोगेन हिताः लोकहिताः ।।
तथा 'लोकप्रदीपेभ्यः' अत्र लोकशब्देन विशिष्ट एव तद्देशनाद्यंशुभिर्मिथ्यात्वतमोऽपनयनेन यथार्ह प्रकाशितज्ञेयभावः संज्ञिलोकः परिगृह्यते, तं प्रत्येव भगवतां प्रदीपत्वोपपत्तेः, न ह्यन्धं प्रति प्रदीपनं प्रदीपो नाम, तदेवंविधं लोकं प्रति प्रदीपा लोकप्रदीपाः । ___ तथा 'लोकप्रद्योतकरेभ्यः' । इह लोकशब्देन विशिष्टचतुर्दशपूर्वविल्लोकः परिगृह्यते, तत्रैव तत्त्वतः प्रद्योतकरत्वोपपत्तेः, प्रद्योत्यं च सप्तप्रकारं जीवादिवस्तुतत्त्वम्, तत्प्रद्योतकरणं च विशिष्टानामेव पूर्वविदां भवति, तेऽपि षट्स्थानपतिता एव श्रूयन्ते, नच तेषां सर्वेषामेव प्रद्योतः सम्भवति, प्रद्योतो हि विशिष्टा तत्त्वसंवेदनयोग्यता, सा च विशिष्टानामेव भवति, तेन विशिष्टचतुर्दशपूर्वविल्लोकापेक्षया प्रद्योतकराः ।
एवं लोकोत्तमत्वादिभिः पञ्चभिः प्रकारैः परार्थकरणात् स्तोतव्यसम्पदः सामान्येनोपयोगसम्पच्चतुर्थी । इदानीमुपयोगसम्पद एव हेतुसम्पदुच्यते-'अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं बोहिदयाणं'।
इह भयं सप्तधा, इह-परलोकाऽऽदानाकस्मादाऽऽजीवमरणाश्लाघाभेदेन, एतत्प्रतिपक्षतोऽभयं विशिष्टमात्मनः स्वास्थ्यं निःश्रेयसधर्मभूमिकानिबन्धनभूतं, धृतिरित्यन्ये, तदित्थंभूतमभयं गुणप्रकर्षयोगादचिन्त्यशक्तियुक्तत्वात्सर्वथा परार्थकारित्वाद् भगवन्त एव ददतीत्यभयदास्तेभ्यः ।
तथा 'चक्षुद्देभ्यः' । इह चक्षुर्विशिष्टमात्मधर्मरूपं तत्त्वावबोधनिबन्धनं गृह्यते तच्च श्रद्धेत्यपरे, तद्विहीनस्याचक्षुष्मत इव वस्तुतत्त्वदर्शनायोगात् न च मार्गानुसारिणी श्रद्धा सुखेन अवाप्यते सत्यां चास्यां कल्याणचक्षुषीव भवति वस्तुतत्त्वदर्शनम्, तदियं धर्मकल्पद्रुमस्यावन्ध्यबीजभूता भगवद्भ्य एव भवतीति चक्षुर्ददतीति चक्षुर्दाः ।