________________
धर्मसंग्रह भाग-४ | द्वितीय अधिकार | -११
૧૧૩ युगपत्प्रत्यक्षतो जानतां पश्यतां च रहस्यं नास्ति, तस्माद्रहस्याभावादर्हन्तः, एषु त्रिष्वर्थेषु पृषोदरादित्वादर्हदिति सिध्यति । 'अरिहन्ताण'मिति पाठान्तरं वा, तत्र कर्मारिहन्तृभ्यः, आह च"अट्ठविहंपि हु कम्मं, अरिभूयं होइ सयलजीवाणं । तं. कम्मं अरि हंता, अरिहंता तेण वुच्चंति ।।१।।" [आ.नि. ९२९] 'अरुहंताण'मित्यपि पाठान्तरम्, तत्र अरोहद्भ्यः-अनुपजायमानेभ्यः क्षीणकर्मबीजत्वात् उक्तं
च
_ “दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः ।
कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ।।१।।" [तत्त्वार्थसूत्रस्य अन्तिमकारिकासु गा. ८ शास्त्रवार्ता स. ६१२] 'शाब्दिकास्तु अर्हच्छब्दस्यैव प्राकृते रूपत्रयमिच्छन्ति, यदूचुर्तेमसूरयः ‘उच्चार्हति' [श्रीसि० ८-२१११] चकाराददितावपि
तेभ्योऽर्हद्भ्यो नमोऽस्त्विति, नमःशब्दयोगाच्चतुर्थी, 'चतुर्थ्याः षष्ठी' [श्रीसि० ८-३-१३१] इति प्राकृतसूत्राच्चतुर्थ्याः स्थाने षष्ठी बहुवचनं चाद्वैतव्यवच्छेदेनार्हद्बहुत्वख्यापनार्थं, विषयबहुत्वेन नमस्कर्तुः फलातिशयज्ञापनार्थं च ।
एते चार्हन्तो नामाद्यनेकभेदा इति भावार्हत्संपरिग्रहार्थमाह-'भगवद्भ्यः' इति तत्र भगःसमग्रैश्वर्यादिलक्षणः उक्तं च“ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ।।१।।" समग्रं चैश्वर्यं भक्तिनम्रतया त्रिदशपतिभिः शुभानुबन्धिमहाप्रातिहार्यकरणलक्षणम्, रूपं पुनः सकलसुरस्वप्रभावविनिर्मितागुष्ठरूपाङ्गारनिदर्शनातिशयसिद्धम्, यशस्तु रागद्वेषपरीषहोपसर्गपराक्रमसमुत्थं त्रैलोक्यानन्दकार्याकालप्रतिष्ठम् श्रीः पुनर्घातिकर्मोच्छेदविक्रमावाप्तकेवलालोकनिरतिशयसुखसम्पत्समन्विता परा, धर्मस्तु सम्यग्दर्शनादिरूपो दान शील तपोभावनामयः साश्रवानाश्रवो महायोगात्मकः, प्रयत्नः पुनः परमवीर्यसमुत्थ एकरात्रिक्यादिमहाप्रतिमाभावहेतुः समुद्घातशैलेश्यवस्थाव्यङ्ग्यः समग्र इति ।
अयमेवंभूतो भगो विद्यते येषां ते भगवन्तः, तेभ्यो भगवद्भ्यो नमोऽस्त्विति, एवं सर्वत्र क्रिया