________________
૧૧૨
ધર્મસંગ્રહ ભાગ-૪ / દ્વિતીય અધિકાર | શ્લોક-૧ _[अत्र च सवाचारवृत्त्युक्तोऽयं विशेषः-‘एको द्वौ यावदुत्कर्षतोऽष्टोत्तरं शतं यथाशक्ति भणित्वा पश्चाद्यथाविधि प्रागुक्तस्वरूपं प्रणिपातं कुर्यात्, तथा चागमः“पयत्तेण धूवं दाऊण जिणवराणं, अट्ठसयसुद्धगंथजुत्तेहिं अपुणरुत्तेहिं संथुणई"
इत्यादि । प्रायः पुरुषाश्रितमिदं संभाव्यते, सूर्याभविजयदेवादिविहितत्वेन द्वितीयतृतीयोपाङ्गादावेवंभणितेर्दर्शनात् द्रौपद्यादिप्रस्तावे त्वेतनमस्कारप्रधानालापकपरिहारेण षष्ठाङ्गादावतिदेशभणनाच्च तथा च तत्राक्षराणि 'तएणं सा दोवई रायवरकन्ना' इत्यादि ‘जाव मज्जणघराओ पडिणिक्खमित्ता जेणेव जिणायतणे तेणेव उवागच्छइ, जाव जिणपडिमाणं आलोए पणामं करेइ' इत्यादि ‘जहा सूरि आभे वाम जाणुं अंचेइ' इत्यादि । एवं शिरोन्यस्ताञ्जलिना शक्रस्तवपाठोऽपि तासां विमWः, तथाभणने हृदादिदर्शनप्रसक्तेः, केवलमञ्जलिभ्रमणमात्रादि न्युञ्छनादिविधानवद् भक्त्यर्थं भवतु नाम, उक्तं च'विणओणयाए गायलट्ठीए, चक्खुप्फासे अंजलिप्पग्गहेणं' एवमेव नाममात्रादिना प्रणिधानाद्यपि ज्ञेयं, सर्वत्र विषमासनादित्वं वळमित्यैदम्पर्यमस्य एतदर्थिना दशाश्रुतस्कन्धचूाद्यवलोक्यमित्यलं विस्तरेण तत्र च प्रणिपातदण्डके] तत्र त्रयस्त्रिंशदालापकाः, आलापकद्विकादिप्रमाणाश्च विश्रामभूमिरूपा नव सम्पदो भवन्ति । यदाह“दो तिअ चउर ति पंचा दोन्नि अ चउरो अ हुंति तिन्नेव । सक्कथये नव संपय, तित्तीसं हुंति आलावा ।।१।।" एताश्च यथास्थानं नामतः प्रमाणतश्च व्याख्यास्यन्ते ।
अथ सूत्रव्याख्या-'नमोऽत्थु णं अरिहंताणं भगवंताणं', तत्र नम इति नैपातिकं पदं पूजार्थं, पूजा च द्रव्यभावसङ्कोचः तत्र करशिरःपादादिद्रव्यसंन्यासो द्रव्यसङ्कोचः, भावसङ्कोचस्तु विशुद्धस्य मनसो नियोगः, अस्त्विति भवतु, प्रार्थना चैषा धर्मबीजम्, आशयविशुद्धिजनकत्वात्, णमिति वाक्यालङ्कारे, अतिशयपूजामर्हन्तीत्यर्हन्तः, यदाहुः“अरिहंति वंदणनमंसणाइ अरिहंति पूअसक्कारं । सिद्धिगमणं च अरिहा, अरिहंता तेण वुच्चंति ।।१।।" [आ. नि. ९२१]
तथा अरिहननादर्हन्तः, अरयश्च मोहादयः साम्परायिककर्मबन्धहेतवः, तेषामरीणामनेकभवगहनव्यसनप्रापणकारणानां हननादर्हन्तः, तथा रजोहननादर्हन्तः, रजश्च घातिकर्मचतुष्टयम्, येनावृतस्यात्मनः सत्यपि ज्ञानादिगुणस्वभावत्वे घनसमूहस्थगितगभस्तिमण्डलस्य विवस्वत इव तद्गुणानामभिव्यक्तिर्न भवति, तस्य हननादर्हन्तः, तथा रहस्याभावादहन्तः तथाहि-भगवतां निरस्तनिरवशेषज्ञानावरणादिकर्मपारतन्त्र्याणां केवलमप्रतिहतमनन्तमद्भुतं ज्ञानं दर्शनं चास्ति, ताभ्यां जगदनवरतं