________________
धर्मसंग्रह भाग-४ / द्वितीय अधिकार | Es-१
૧૧૧ सम्पूर्णकायोत्सर्गश्च 'नमो अरिहंताण'मितिनमस्कारपूर्वकं पारयित्वा चतुर्विंशतिस्तवं सम्पूर्ण पठति, एवं सन्निहिते गुरौ तत्समक्षं गुरुविरहे तु गुरुस्थापनां मनसिकृत्य, ईर्यापथिकीप्रतिक्रमणं निवर्त्य चैत्यवन्दनमुत्कृष्टमारभते ।
अत्र चैवं बृहद्भाष्योक्तो विधिः विख “संनिहिअं भावगुरुं, आपुच्छित्ता खमासमणपुव्वं । इरिअं पडिक्कमिज्जा, ठवणाजिणसक्खिअं इहरा ।।१।।"
न तु जिनबिम्बस्यापि पुरतः स्थापनाचार्यः स्थापनीयो, यतस्तीर्थकरे सर्वपदभणनात् तबिम्बेऽपि सर्वपदस्थापनाऽवसीयते एव । उक्तं च व्यवहारभाष्ये"आयरियग्गहणेणं, तित्थयरो इत्थ होइ गहिओ अ । किं न भवइ आयरिओ, आयारं उवदिसंतो य? ।।१।। निदरिसणमित्थ जह खंदएण पुठ्ठो य गोयमो भयवं! । केण तुहं सिटुंति य, धम्मायरिएण पच्चाह ।।२।। स जिणो जिणाइसयओ १, सो चेव गुरू गुरूवएसाओ २ । करणाईविणयणाओ, सो चेव मओ उ उज्झाओ ।।३।।" त्ति । तथा-“एवं स्कन्दकसाधुपुङ्गवपुरः श्रीगौतमेनोदिताः, श्रुत्वाऽर्हद्गुरुतादिसर्वपदवीः श्रीवर्द्धमानप्रभोः । बुध्यध्वं भविकाः ! स्फुटं तदरि(रु)हबिम्बेष्वपि स्थापनाचार्यत्वादि तथा क्षमाश्रमणकैः कार्यो विधिस्तत्पुरः ।।१।।" २३ एवं साक्षात्समासन्नभावाचार्यासद्भावे क्षमाश्रमणपूर्वं जिनबिम्बाद्यापृच्छ्य ईर्मापथिकी प्रतिक्रर णीया, नतु तद्विनापि, यदागमः"गुरुविरहमि य ठन् गा, गुरूवएसोवदंसणत्थं चे” [प. २६२]त्यादि सङ्घाचारवृत्ती ईर्यासम्पदधिक' ।
जघन्य-मध्य तु चैत्यवन्दने ईर्यापथिकीप्रतिक्रमणमन्तरेणापि भवत इति । उत्कृष्टया वन्दनया वन्दितुकामो वितः साधुः श्रावकश्चाविरतसम्यग्दृष्टिरपुनर्बन्धको वा यथाभद्रकोऽपि यथोचितं प्रतिलेखितप्रमार्जितस्थण्डिलो भुवनगुरौ विनिवेशितनयनमानसः संवेगवैराग्यवशादुत्पन्नरोमाञ्चकञ्चुको मुदश्रुपूर्णलोचनोऽतिदुर्लभं भगवत्पादवन्दनमिति बहुमन्यमानो महावृत्तानर्थयुक्तानपुनरुक्तान्नमस्कारान् भणित्वा योगमुद्रयाऽस्खलितादिगुणोपेतं तदर्थानुस्मरणगर्भं प्रणिपातदण्डकं पठति,