Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 137
________________ ૧૨૦ धर्मसंग्रह भाग-४ / द्वितीय अधिकार / श्लो-५१ - अन्यस्त्वाह-ज्ञानस्य विशेषविषयत्वाद्दर्शनस्य च सामान्यविषयत्वात्तयोः सर्वार्थविषयत्वमयुक्तम्, तदुभयस्य सर्वार्थविषयत्वादिति उच्यते, न हि सामान्यविशेषयोर्भेद एव, किन्तु त एव पदार्थाः समविषमतया संप्रज्ञायमानाः सामान्यविशेषशब्दाभिधेयतां प्रतिपद्यन्ते, ततश्च त एव ज्ञायन्ते त एव दृश्यन्ते इति युक्तं ज्ञानदर्शनयोः सर्वार्थविषयत्वमिति । आह - एवमपि ज्ञानेन विषमताधर्मविशिष्टा एव गम्यन्ते, न समताधर्मविशिष्टा अपि, दर्शनेन च समताधर्मविशिष्टा एव गम्यन्ते, न विषमताधर्मविशिष्टा अपि ततश्च ज्ञानदर्शनाभ्यां समताविषमतालक्षणधर्मद्वयाग्रहणादयुक्तमेव तयोः सर्वार्थविषयत्वमिति । न, धर्मधर्मिणोः सर्वथा भेदानभ्युपगमात्, ततश्चाभ्यन्तरीकृतसमताख्यधर्माण एव विषमताधर्मविशिष्टा ज्ञानेन गम्यन्ते, अभ्यन्तरीकृतविषमताख्यधर्माण एव च समताधर्मविशिष्टा दर्शनेन गम्यन्त इति ज्ञानदर्शनयोर्ना - सर्वार्थविषयत्वमिति सर्वज्ञा सर्वदर्शिनश्च, तेभ्यः । एते च सर्वेऽपि सर्वगतात्मवादिभिः मुक्तत्वे सति न नियतस्थानस्था एवेष्यन्ते । यदाहुस्ते- 'मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवज्र्जिताः' । [ ] तन्निराकरणार्थमाह-‘सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं' । 'शिवं' सर्वोपद्रवरहितत्वात् । 'अचलं' स्वाभाविकप्रायोगिकचलनक्रियारहितत्वात् । 'अरुजं' व्याधिवेदनारहितम् तन्निबन्धनयोः शरीरमनसोरभावात् । 'अनन्तम्' अनन्तज्ञानविषययुक्तत्वात् । 'अक्षयं' विनाशकारणाभावात् । सततमनश्वरमित्यर्थः । 'अव्याबाधम्' अकर्मत्वात्, 'अपुनरावृत्ति' न पुनरावृत्तिः - संसारे अवतारो यस्मात् । 'सिद्धिगतिनामधेयं' सिद्ध्यन्ति निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धि: - लोकान्तक्षेत्रलक्षणा, सैव च गम्यमानत्वाद् गतिः सिद्धिगतिरेव नामधेयं यस्य तत्तथा, तिष्ठन्त्यस्मिन्निति स्थानम् व्यवहारतः सिद्धिक्षेत्रम् । यदाहुः “इहं बुंदिं चइत्ता णं, तत्थ गंतूण सिज्झइ " [ आवश्यक नि. ९५९] इति निश्चयतस्तु स्वरूपमेव, 'सर्वे भावा आत्मभावे तिष्ठन्ति ' [ ] इतिवचनात् विशेषणानि च निरुपचरितत्वेन यद्यपि मुक्तात्मन्येव भूयसा संभवन्ति, तथापि स्थानस्थानिनोरभेदोपचारादेवं व्यपदेशः, तदेवंविधं 'स्थानं' संप्राप्ताः' सम्यगशेषकर्मक्षयविच्युत्या स्वरूपगमनेन परिणामान्तरापत्त्या प्राप्तास्तेभ्यः । न हि विभूनामेवंविधप्राप्तिसम्भवः, सर्वगतत्वे सति सदैकस्वभावत्वात्, नित्यानां चैकरूपतया अवस्थानं तद्भावाव्ययस्य नित्यत्वात् अतः क्षेत्रासर्वगतपरिणामिनामेवैवं प्राप्तिसम्भव इति, अत एव 'कायप्रमाण आत्मेति सुस्थितं वचनम्, तेभ्यो नम इति क्रियायोगः । एवंभूता एव प्रेक्षावतां नमस्कारार्हाः, आद्यन्तसङ्गतश्च नमस्कारो मध्यव्यापीति भावना ।

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218