________________
૧૨૦
धर्मसंग्रह भाग-४ / द्वितीय अधिकार / श्लो-५१ - अन्यस्त्वाह-ज्ञानस्य विशेषविषयत्वाद्दर्शनस्य च सामान्यविषयत्वात्तयोः सर्वार्थविषयत्वमयुक्तम्, तदुभयस्य सर्वार्थविषयत्वादिति उच्यते, न हि सामान्यविशेषयोर्भेद एव, किन्तु त एव पदार्थाः समविषमतया संप्रज्ञायमानाः सामान्यविशेषशब्दाभिधेयतां प्रतिपद्यन्ते, ततश्च त एव ज्ञायन्ते त एव दृश्यन्ते इति युक्तं ज्ञानदर्शनयोः सर्वार्थविषयत्वमिति ।
आह - एवमपि ज्ञानेन विषमताधर्मविशिष्टा एव गम्यन्ते, न समताधर्मविशिष्टा अपि, दर्शनेन च समताधर्मविशिष्टा एव गम्यन्ते, न विषमताधर्मविशिष्टा अपि ततश्च ज्ञानदर्शनाभ्यां समताविषमतालक्षणधर्मद्वयाग्रहणादयुक्तमेव तयोः सर्वार्थविषयत्वमिति । न, धर्मधर्मिणोः सर्वथा भेदानभ्युपगमात्, ततश्चाभ्यन्तरीकृतसमताख्यधर्माण एव विषमताधर्मविशिष्टा ज्ञानेन गम्यन्ते, अभ्यन्तरीकृतविषमताख्यधर्माण एव च समताधर्मविशिष्टा दर्शनेन गम्यन्त इति ज्ञानदर्शनयोर्ना - सर्वार्थविषयत्वमिति सर्वज्ञा सर्वदर्शिनश्च, तेभ्यः ।
एते च सर्वेऽपि सर्वगतात्मवादिभिः मुक्तत्वे सति न नियतस्थानस्था एवेष्यन्ते । यदाहुस्ते- 'मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवज्र्जिताः' । [ ]
तन्निराकरणार्थमाह-‘सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं' । 'शिवं' सर्वोपद्रवरहितत्वात् । 'अचलं' स्वाभाविकप्रायोगिकचलनक्रियारहितत्वात् । 'अरुजं' व्याधिवेदनारहितम् तन्निबन्धनयोः शरीरमनसोरभावात् । 'अनन्तम्' अनन्तज्ञानविषययुक्तत्वात् । 'अक्षयं' विनाशकारणाभावात् । सततमनश्वरमित्यर्थः । 'अव्याबाधम्' अकर्मत्वात्, 'अपुनरावृत्ति' न पुनरावृत्तिः - संसारे अवतारो यस्मात् । 'सिद्धिगतिनामधेयं' सिद्ध्यन्ति निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धि: - लोकान्तक्षेत्रलक्षणा, सैव च गम्यमानत्वाद् गतिः सिद्धिगतिरेव नामधेयं यस्य तत्तथा, तिष्ठन्त्यस्मिन्निति स्थानम् व्यवहारतः सिद्धिक्षेत्रम् । यदाहुः
“इहं बुंदिं चइत्ता णं, तत्थ गंतूण सिज्झइ " [ आवश्यक नि. ९५९] इति निश्चयतस्तु स्वरूपमेव, 'सर्वे भावा आत्मभावे तिष्ठन्ति ' [ ] इतिवचनात् विशेषणानि च निरुपचरितत्वेन यद्यपि मुक्तात्मन्येव भूयसा संभवन्ति, तथापि स्थानस्थानिनोरभेदोपचारादेवं व्यपदेशः, तदेवंविधं 'स्थानं' संप्राप्ताः' सम्यगशेषकर्मक्षयविच्युत्या स्वरूपगमनेन परिणामान्तरापत्त्या प्राप्तास्तेभ्यः । न हि विभूनामेवंविधप्राप्तिसम्भवः, सर्वगतत्वे सति सदैकस्वभावत्वात्, नित्यानां चैकरूपतया अवस्थानं तद्भावाव्ययस्य नित्यत्वात् अतः क्षेत्रासर्वगतपरिणामिनामेवैवं प्राप्तिसम्भव इति, अत एव 'कायप्रमाण आत्मेति सुस्थितं वचनम्, तेभ्यो नम इति क्रियायोगः । एवंभूता एव प्रेक्षावतां नमस्कारार्हाः, आद्यन्तसङ्गतश्च नमस्कारो मध्यव्यापीति भावना ।