________________
૧૧૯
धर्मसंग्रा6 माग-४ | द्वितीय मधिमार / Is-११ त्वमविरुद्धम्, एवं रागादीनेव सदुपदेशादिना जापयन्तीति जापकास्तेभ्यः ।
एतेऽपि कालकारणवादिभिरनन्तशिष्यैर्भावतोऽतीर्णादय एवेष्यन्ते, ‘काल एव कृत्स्नं जगदावर्त्तयति' [ ] इतिवचनात् । एतन्निरासायाह-'तिण्णाणं तारयाणं' । सम्यग्ज्ञानदर्शनचारित्रपोतेन भवार्णवं तीर्णवन्तस्तीर्णाः न चैषां तीर्णानां पारगतानामावर्त्तः सम्भवति, तद्भावे मुक्त्यसिद्धेः एवं च न मुक्तः पुनर्भवे भवतीति तीर्णत्वसिद्धिः, एवं तारयन्त्यन्यानपीति तारकास्तेभ्यः ।
एतेऽपि परोक्षज्ञानवादिभिर्मीमांसकभेदैरबुद्धादय एवेष्यन्ते 'अप्रत्यक्षा हि नो बुद्धिः, प्रत्यक्षोऽर्थः' [शाबरभाष्य] इतिवचनात् । एतद्व्यवच्छेदार्थमाह-'बुद्धाणं बोहयाणं' । अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवाजीवादिरूपं तत्त्वं स्वसंविदितेन ज्ञानेन बुद्धवन्तो बुद्धाः न चास्वसंविदितेन ज्ञानेनार्थज्ञानं सम्भवति न ह्यदृष्टप्रदीपो बाह्यमर्थं प्रत्यक्षं करोति न चेन्द्रियवदसंविदितस्यापि ज्ञानस्यार्थप्रत्यक्षीकरणम्, इन्द्रियस्य भावेन्द्रियत्वात्, तस्य च स्वसंविदितरूपत्वात् । यदाह'अप्रत्यक्षोपलम्भस्य, नार्थदृष्टिः प्रसिद्ध्यति' [प्रमाणविनिश्चये परिच्छेद १] एवं च सिद्धं बुद्धत्वम् एवमपरानपि बोधयन्तीतिबोधकास्तेभ्यः ।
एतेऽपि जगत्कर्तृलीनमुक्तवादिभिः सन्तपनविनेयैस्तत्त्वतोऽमुक्तादय एवेष्यन्ते 'ब्रह्मवद्ब्रह्मसङ्गतानां स्थितिः' [ ] इति वचनात् । एतत्रिराचिकीर्षयाऽऽह-'मुत्ताणं मोअगाणं' । चतुर्गतिविपाकचित्रकर्मबन्धमुक्तत्वान्मुक्ताः कृतकृत्या निष्ठितार्था इत्यर्थः, न च जगत्कर्तरि लये निष्ठितार्थत्वं सम्भवति, जगत्करणेन कृतकृत्यत्वायोगात्, हीनादिकरणे च रागद्वेषानुषङ्गः न चान्यत्राऽन्यस्य लयः सम्भवति, एकतराभावप्रसङ्गात् एवं जगत्कर्तरि लयाभावात् मुक्तत्वसिद्धिः एवं मोचयन्त्यन्यानपीति मोचकास्तेभ्यः ।
एवं च जिनत्वजापकत्वतीर्णत्वतारकत्वबुद्धत्वबोधकत्वमुक्तत्वमोचकत्वैः स्वपरहितसिद्धरात्मतुल्यपरफलकर्तृत्वसम्पदष्टमी ।
एतेऽपि बुद्धियोगज्ञानवादिभिः कापिलैरसर्वज्ञा असर्वदर्शिनश्चेष्यन्ते ‘बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते' [ ] इतिवचनात् । एतन्निराकरणायाह-'सवण्णूणं सव्वदरिसीणं' । सर्वं जानन्तीति सर्वज्ञाः, सर्वं पश्यन्तीत्येवंशीलाः सर्वदर्शिनः, तत्स्वभावत्वे सति निरावरणत्वात् । उक्तं च“स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्ध्या ।
चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत् ।।१।।" [योगदृष्टिसमुच्चये गा. १८३] .. न कारणाभावे कर्त्ता तत्फलसाधक इत्यपि नैकान्तिकम्, परनिष्ठितप्लवकस्य तरकाण्डाभावेऽपि प्लवदर्शनात् इति बुद्धिलक्षणं कारणमन्तरेणापि आत्मनः सर्वज्ञत्वसर्वदर्शित्वसिद्धिः ।