Book Title: Dharm Sangraha Part 04
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
६५७
धर्भसंग्रह भाग-४ द्धितीय मधिशार/ श्लो-११
तथा 'मार्गदेभ्यः' । इह मार्गो भुजङ्गमगमननलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषः, ‘हेतुस्वरूपफलशुद्धा सुखे'त्यन्ये अस्मिन्नसति न यथोचितगुणस्थानावाप्तिः, मार्गविषमतया चेतःस्खलनेन प्रतिबन्धोपपत्तेः मार्गश्च भगवद्भ्य एवेति मार्ग ददतीति मार्गदाः ।
तथा 'शरणदेभ्यः' । इह शरणं भयार्त्तत्राणम्, तच्च संसारकान्तारगतानामतिप्रबलरागादिपीडितानां दुःखपरम्परासङ्क्लेशविक्षोभतः समाश्वासनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं, 'विविदिषे'त्यन्ये अस्मिंश्च सति तत्त्वगोचराः शुश्रूषाश्रवणग्रहणधारणाविज्ञानेहापोहतत्त्वाभिनिवेशाः प्रज्ञागुणा भवन्ति, तत्त्वचिन्तामन्तरेण तेषामभावात् संभवन्ति तामन्तरेणापि तदाभासाः, न पुनः स्वार्थसाधकत्वेन भावसाराः तत्त्वचिन्तारूपं च शरणं भगवद्भ्यः एव भवतीति शरणं ददतीति शरणदाः ।
तथा 'बोधिदेभ्यः' । इह बोधिर्जिनप्रणीतधर्मप्राप्तिः, इयं पुनः यथाप्रवृत्ताऽपूर्वाऽनिवृत्तिकरणत्रयव्यापाराभिव्यङ्ग्यमभिन्नपूर्वग्रन्थिभेदतः पश्चानुपूर्व्या प्रशमसंवेगनिर्वेदाऽनुकम्पाऽऽस्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनमुच्यते, 'विज्ञप्ति'रित्यन्ये । पञ्चकमप्येतदपुनर्बन्धकस्य, पुनर्बन्धके यथोदितस्यास्याभावात् । एते च यथोत्तरं पूर्वपूर्वफलभूताः, तथाहि-अभयफलं चक्षुः, चक्षुःफलं मार्गो, मार्गफलं शरणम्, शरणफलं बोधिः सा च भगवद्भ्य एव भवतीति बोधिं ददतीति बोधिदाः ।
एवमभयदानचक्षुर्दानमार्गदानशरणंदानबोधिदानेभ्य एव यथोदितोपयोगसिद्धरुपयोगसम्पद एव हेतुसम्पदुक्ता ।
साम्प्रतं स्तोतव्यसम्पद एव विशेषेणोपयोगसम्पदुच्यते 'धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं' । 'धर्मदेभ्यः', इह धर्मश्चारित्रधर्मो गृह्यते, स च यतिश्रावकसम्बन्धिभेदेन द्वेधा, यतिधर्मः सर्वसावद्ययोगविरतिलक्षणः, श्रावकधर्मस्तु देशविरतिरूपः स चायमुभयरूपोऽपि भगवद्भ्य एव, हेत्वन्तराणां सद्भावेऽपि भगवतामेव प्रधानहेतुत्वादिति धर्म ददतीति धर्मदाः ।
धर्मदत्वं च धर्मदेशनाद्वारेणैव भवति, नान्यथेत्याह-'धर्मदेशकेभ्यः', धर्मं प्रस्तुतं यथाभव्यमवन्ध्यतया देशयन्तीति धर्मदेशकाः ।
तथा 'धर्मनायकेभ्यः' । धर्मोऽधिकृत एव तस्य नायका स्वामिनः, तद्वशीकरणभावात् तदुत्कर्षावाप्तेस्तत्प्रकृष्टफलभोगात् तद्विधातानुपपत्तेश्च 'धर्मसारथिभ्यः' प्रस्तुतस्य धर्मस्य स्वपरापेक्षया सम्यक्प्रवर्त्तनपालनदमनयोगतः सारथयो धर्मसारथयः।

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218