Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 174
________________ १६१ ८८ २ तथाऽस्मादुत्सूत्रप्रवृत्तिप्रतिबन्धिका भावत ईर्यापथिकी क्रियैव, यथाख्यातचारित्रप्रतिबन्धिका च मोहनीयोदयजन्या साम्परायिकी क्रिया भवतीति सम्यकुपर्यालोचनायामुपशान्तवीतरागस्य नोत्सूत्रवृत्तिर्नवा यथाख्यातचारित्रहानिरिति चेत् । न, द्रव्यवधस्य गर्हणीयत्वे प्रतिषिद्धप्रतिषेवणरूपत्वे च तेनोपशान्तमोहस्यापि यथाख्यात चारित्रस्य निर्ग्रन्थत्वस्य च विलोपप्रसङ्गस्य वज्रलेपत्वात् । परिहारविसुद्धिय संजय पुच्छा, गो० णो पडिसेवए होज्जा, अपडिसेवए होज्जा । एवं जाव अहक्खाय संजए कसायकुसीले पुच्छा, गो० णो पडिसेवए होज्जा, अपडिसेवए हुज्जा, एवं नियंठेवि, एवं सिणाए वि ।" इत्याद्यागमेन प्रतिषिद्धप्रतिषेवणस्योपरितनचारित्र निर्ग्रन्थत्रयविरोधिताप्रतिपादनात् संयमप्रतिकूलार्थस्य सञ्ज्वलनकषायोदयात् सेवकः - प्रतिषेवक इति प्रतिषेवणाद्वारे व्याख्यानात् प्रतिषेवणाविशेषेणैव यथाख्यातचारित्रादिविरोधव्यवस्थितेः ॥ अनाभोजद्रव्य हिंसायाः प्रतिषिद्वप्रतिषेवणरूपत्वे उपशान्तमोहवृत्तित्वे च न बाधकमिति चेत् । न, प्रतिषेवापद विषयविभागेऽनाभोगजप्रतिषेवाया अपि परिगणनाद् । यदागमः- -" २ दसविहा पडिसेवणा पण्णत्ता । तं० - दप्प- प्पमाय - ऽणाभोग - आउरे आवईइ य संकिए सहसक्का (र) -भय- प्पदोसा य वीमंसत्ति । " तस्माद्द्रव्यहिंसायाः प्रतिषेवणारूपत्वाभ्युपगमे तवाप्युपशान्तमोहस्य प्रतिषेवित्वं स्यादित्यप्रति • षेवित्वव्याप्ययथाख्यातचारित्र निर्ग्रन्थत्वयोस्तत्र का प्रत्याशा ? मोहोदय विशिष्टप्रतिषेवणत्वेनोत्सूत्रप्रवृत्तिहेतुमभ्युपगम्य वीतरागे मोहसत्ताजन्यप्रतिषेवणाश्रयणेऽपसिद्धान्तादिदोषा दुर्द्धरा एव प्रसज्येरन्, मोहोदयसत्ताजन्योत्सूत्रप्रवृत्तिहेतुप्रतिषेवणाभेदस्य कापि प्रवचनेऽश्रुतत्वात् प्रत्युत कषायकुशीलादिपरिहारविशुद्धिकाद्युपरितननिर्ग्रन्थसंयमत्रयस्याप्रतिषेवित्वाभिधानाद् । मोहोदयमात्रमपि न प्रतिघेवणाजनकमिति तत्सत्ताजन्यप्रतिषेवणवार्त्तापि दूरोत्सारितैवेति तस्या उत्सूत्रप्रवृत्तिहेतुत्वे मोहोदयविशिष्टत्वं तन्त्रमित्यत्र सूत्रसम्म तिप्रदर्शनमत्यसमञ्जसम्, ततः पुलाकबकुशमति सेवाकुशीलत्रयनृत्यपकृष्टसंयमस्थाननियत संज्वलनोदयव्याप्य एव व्यापारविशेषः प्रतिषेवणारूपः स्वीकर्त्तव्यः, स एव च साधूनां गर्हणीय 3 १ परिहारविशुद्धिकसंयते पृच्छा, गौतम ! न प्रतिषेवको भवेत्, अप्रतिषेवको भवेद्, एवं यावत् यथाख्यातसंयते कषायकुशीले पृच्छा, नो प्रतिषेवको भवेद अप्रतिषेो भवेत् । एवं निर्ग्रन्थेऽपि, एवं स्नातकेऽपि ॥ २ दशविधा प्रतिषेवणा प्रशप्ता, सद् यथा दर्प- प्रमादा-नाभोगा-35 तुरापदश्च शङ्कितः उहात्कार-भय-प्रद्वेषाश्च-विमर्श इदि । ૧

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278