Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
प्रतिलेखना हि केवलिनः प्राणैः संसक्तस्यैव वस्त्रादेः प्रवचने प्रसिद्धा । तदुक्तमोघनिर्युक्तौ
" 'पाणेहि उ संसत्ता पडिलेहा होइ केवलीणं तु । ___ संसत्तमसंसत्ता छउमत्थाणं पडिलेहा ॥१॥" त्ति ॥२५७ ॥
सा च स्वरूपेणैव योगानांजीवरक्षाहेतुत्वेऽनुपपन्ना स्यात् , तद्व्यापार विनापि जीवरक्षोपपत्तौ तद्विविविक्तीकरणप्रयासस्य पलिमन्थत्वाद्, न च पलिमन्थः केवलिनो युज्यते, अत एव प्रत्युपेक्षितमपि वस्त्रायवश्यभाविजीवसंसर्ग जानन् केवली पलिमन्थादेव नानागतमेव प्रत्युपेक्षते, किन्तूपभोगकाल एव प्रत्युपेक्षते इति व्यवस्थितम् । तदुक्तम्
" संसज्जइ धुवमेअं अपेहि तेग पुत्व पडिलेहे ।।
पडिलेहिअंपि संसज्जइत्ति संसत्तमेव जिणा ॥७॥ २५८ ॥ त्ति । "एतद्व्याख्या यथा-संसज्यते प्राणिभिः संसर्गमुपयाति ध्रुवमवश्यमेतद्वस्त्रादि अप्रत्युपेक्षितं सत् तेन पूर्वमेव केवलिनः प्रत्युपेक्षणां कुर्वन्ति । यदि पुनरपि संविद्रते-इदमिदानी वस्त्रादि प्रत्युपेक्षितमप्युपभोगकाले संसज्यते, तदा 'संसत्तमेव जिण' त्ति संसक्तमेव जिनाः केवलिनः प्रत्युपेक्षन्ते, न त्वनागतमेव, पलिमन्थादिति ॥” .. 'पडिलेहणाइहाणी' इत्यत्रादिना जीवरक्षाहेतूलङ्घनप्रलङ्घनादिव्यापारस्यापि केवलिनो वैयर्थ्य बोध्यम्, नियतव्यापारेणैव केवलियोगाजीवरक्षेति । द्वितीये च पक्षेऽङ्गीक्रियमाणेऽशक्यपरिहारोऽप्यवश्यमभ्युपगन्तव्य इति गम्यम्, सर्वत्र जीवरक्षाव्यापारस्य स्वकायस्य जीवानां वा विविक्तीकरणपर्यवसितस्य दुकरत्वात् ॥ ७४ ॥ तथाहि'ण हु सका कावं जे इह बायरवानकायनहरणं । केवलिणावि विहारे जलाइ जीवाण य तयंति ॥७॥
१ प्राणैः संसक्तानां प्रतिलेखा भवति केवलिनां तु ।
संसक्तासंसक्तानां छद्मस्थानां तु प्रतिलेखा ॥ २ संसज्यते ध्रुवमेतद् अप्रेक्षितं तेन पूर्व प्रतिलेखयेयुः ।
प्रतिलेखितमपि संसज्यते इति संसक्तमेव जिनाः ॥ ३ नैव शक्यं कर्तुमिह बादरवायुकायिकोद्धरणम् । केवलिनाऽपि विहारे जलादिजीवानां च तदिति ॥ ७६ ॥

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278