Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२५९
त् तत्र गुरौ विषघातादीन् इमाननन्तरमेव वक्ष्यमाणान् सुवर्णगुणान् योजयन्ति ॥ ९३ ॥
अत्रार्थेऽष्टसुवर्णगुणप्रतिपादनाय भावसाधौ गुरौ तद्द्योजनाय च पूर्वाचार्यकृता एव तिस्रो गाथा उपन्यस्यति -
विसघाइ - रसायण - मंगलत्थ- विषए-पयाहिणावते । गुरुए प्रज्-कुच्छे सुवन्ने गुणा हुंति ॥ ए४ ॥
व्याख्या--' विसघाइ ' इत्यादि । विषघाति - गरदोषहननशीलं सुवर्ण भवति । रसायनमङ्गलार्थविनीतमिति कर्मधारयपदम् । रसायनं - वयः स्तम्भनम्, मंगलार्थ - मंगलप्रयोजनम्, विनीतमिव विनीतम्, कटक केयूरादीष्टविशेषैः परिणमनात् । तथा प्रदक्षिणावर्त्तमतितापने प्रदक्षिणावृत्ति, तथा गुरुकम्, अलघुसारत्वात् । अदाह्याकुत्स्यमिति कर्मधारयपदम, तत्रादाह्यमग्नेरदहनीयम्, सारत्वादेवः अकुत्स्यमकुत्सनीयम्, अकुथितगन्धत्वादिति । एवमष्टौ सुवर्णे हेम्नि गुणा असाधारणधर्मा भवन्ति स्युरिति गाथार्थः ॥ ९४ ॥
एतत्समानान् साधुगुणानाह
इय मोहविसं घायइ सिवोवएसा रसायणं होइ । जोग्गो ति ॥ ए॥
गुणन य मंगलत्थं कुइ विपीन
व्याख्या--'
इय' ति । इत्येवं सुवर्णवदित्यर्थः, मोहविषं - विवेकचैतन्यापहारि घातयति - नाशयति केषांचित्, साधुरिति प्रक्रमः । कुतः ? इत्याह- शिवोपदेशान्मोक्षमार्गप्ररूपणात् । तथा स एव रसायनमिव रसायनं भवति जायते, शिवोपदेशादेवाजराम ररक्षाहेतुत्वात् । तथा गुणतश्च स्वगुणमाहात्म्येन च मङ्गलार्थं मङ्गलप्रयोजन दुरितोपशममित्यर्थः करोति विधत्ते, विनीतश्च प्रकृत्यैव भवत्यसौ योग्य इति कृत्वा ।। ९५ ।।
मग्गणुसारि पया हि कोहग्गा प्रज्जो
गंजीरो गरु म तहा होइ कुच्छो सइसीलनावेणं ॥ ५६ ॥
व्याख्या-- - मग्गणुसारि 'ति । मार्गानुसारित्वं सर्वत्र यत्साधोस्तत्प्रदक्षिणावर्त्तत्वमुच्यते । गम्भीरोऽतुच्छचेताः गुरुकको मुरुक इत्यर्थः ' तथा ' इति

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278