Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 274
________________ २६१ बन्धककर्ममलविगमविशदीकृतहृदयस्य निश्चयावलम्बनदशायां शुद्धात्मस्वभावपरिणतौ प्रकटीभूतायामध्यात्मध्यानेऽपि एकाग्रत्वं समुल्लसति ॥९९ ॥ ___ ततः किं भवति ? इत्याह-- तंमि य आयसरूवं विसयकसायाश्दोसमलरहिनं। विनाणाणंदघणं परिसुद्धं हो पच्चक्खं ॥ १० ॥ व्याख्या-'तमि य'ति ।तस्मिंश्चाध्यात्मध्यानैकाग्रत्वे समुल्लसिते विषयाः शब्दादय इन्द्रियार्थाः कषायाः क्रोधमानमायालोभास्तदादयो ये दोषमला जीवगुणमालिन्यहेतवस्तद्रहितं, तथा विज्ञानानन्दघनं स्वरूपप्रतिभासप्रशमसुखैकरसतामापन्नं, परिशुद्धमनुपहितस्फटिकरत्नवत् प्रकृत्यैव निर्मलमात्मस्वरूपं प्रत्यक्ष भवति ॥ १००॥ ततश्चात्मन्येव रतस्य तत्रैव तृप्तस्य तत्रैव च सन्तुष्टस्य स्वात्ममात्रप्रतिबन्धविश्रान्ततया विकल्पोपरमः स्यादित्याहजलहिम्मि असंखोने पवणानावे जहा जलतरंगा। परपरिणामानावे व विअप्पा तया हुँति ॥ १०१॥ ___व्याख्या-'जलहिम्मि' त्ति । असंक्षोभे संक्षोभपरिणामरहिते जलधौ समुद्रे पवनाभावे यथा जलतरङ्गा नैव भवन्ति, तथा तदा-आत्मस्वरूपप्रत्यक्षतादशायां परपरिणामस्य पुद्गलग्रहणमोचनपरिणामस्याभावे नैव विकल्पाः शुभाशुभरूपाश्चित्तविप्लवा भवन्ति ॥ १०१॥ अध्यात्मध्यानजनितायामात्मस्वरूपप्रत्यक्षतादशायां संहृतसकलविकल्पावस्थायां सूक्ष्मविकल्पोपरमेणैव स्थूलविकल्पोपरमदाढर्थमाहका अरती आणंदे केवत्ति वियप्पणं ण जत्युत्तं । अमे तत्थ वियप्पा पुग्गलसंजोगजा कत्तो ॥ १० ॥ 'का अरति 'त्ति । का अरतिः ? को वा आनन्दः ? इति विकल्पनमपि न त(य)त्र-आत्मस्वरूपप्रत्यक्षतायामुक्तम्,अध्यात्मशास्त्रे स्वरूपानुभवमनतया सन्निहितमुखदुःखविकल्पस्य सूक्ष्मस्याप्यनवकाशात् । तत्रान्ये विकल्पाः स्थूला पुग

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278