Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२६२
लसंयोगजा गृहधनस्वजनभोजनादिपुद्गलसंसर्गजनिताः कुतो भवन्ति ? अपि तु न कुतश्चित् ; स्वाभाविकधर्मज्ञानसामग्र्या औपाधिकधर्मज्ञानमात्र प्रति प्रतिबन्धकत्वादिति भावः। तयं शुद्धात्मस्वभावानुभवनामा सन्मात्रार्थनिर्भासो धर्मशुक्लध्यानफलंबिगलितवेद्यान्तरचिदानन्दनिष्पन्दभूतोऽविकल्पः समाधिरुपगीयते ॥ १०२॥
अस्यैवाविकल्पसमाधेरुपायभूतं शुद्धं विकल्पमुपदर्शयति-- एणे पुग्गलनावा अएणो एगो य नाणमित्तोहं। . सुघो एस वियप्पो अविअप्पसमाहिसंजणओ ॥१३॥
..' अण्णे 'ति । पुद्गलभावाः पुद्गलपरिणामा:-कायमनोवागानप्राणकर्मवर्गणाधनगृहक्षेत्रारामादिसंस्थानभाजोऽविद्याप्रपञ्चोपराचतममकारविषयीभूता अन्ये-मदात्मद्रव्यादेकान्तेन पृथग्भूताः, कालत्रयेऽप्युपयोगलक्षणासंस्पर्शादिति भावः । अहं च ज्ञानमात्रमुपयोगमात्रस्वभाव इति हेतोः पुद्गलभावेभ्योऽन्य एकश्च, कालत्रयेऽप्यन्यद्रव्यसंसर्गेऽपि तत्स्वभावापरिग्रहाद् अनन्तपर्यायाविर्भावतिरोभावाभ्यामप्यविचलितशुद्धात्मद्रव्यैकशक्तिमखाच । न च ज्ञानदर्शनचारित्ररूपरत्नत्रयस्वभावशालित्वेनापि शुदात्मद्रव्यस्यैकत्वक्षतिः सम्भवति प्रभातल्यदोपहरणशक्तिगुगयोगाज्जात्यरत्नस्येवेति । एष शुद्धात्मद्रव्यविषयत्वेन शुद्धो विकल्पोऽविकल्पसमाधेः सम्यक् प्रकारेण जनकः, एतजनितसंस्कारस्य विकल्पान्तरसंस्कारविरोधित्वेन ततस्तदनुत्थानाद्, एतस्य च वढेर्दाह्य विनाश्यानु विनाशवदशुभविकल्पजालमुच्छेद्य स्वत एवोपरमादिति ॥ १०३ ॥
" तदेतदध्यात्मध्यानमविकल्पसमाधिसम्बन्धबन्धुरमित्येतदेवाभिष्टुवन्नाहएयं परमं नाणं परमो धम्मो इमो विय पसिघो। एयं परमरहस्सं णिच्छयसुद्धं जिणा बिति ॥१०४॥ ___ व्याख्या --'एयं परमं 'ति । एतदध्यात्मध्यानं परमं ज्ञानं, ज्ञानस्य विरतिफलत्वाद्, विरतेश्च समतासारत्वात् , समतायाश्चेतदायत्तत्वादिति भावः । परमो धर्मोऽयमेव प्रसिद्धः, दुर्गतौ पततो जन्तोरणात्, सिद्धिगतौ नियमेन धारणाच । एतच्च परमरहस्यमुत्कृष्टोपनिषद्भुतं निश्चयशुद्धं पारमार्थिकनयविशदीकृतं जिनास्तीर्थकरा ब्रुवते । थदागमः--
.
.

Page Navigation
1 ... 273 274 275 276 277 278