Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
" परमरहस्समिसीणं समत्तगणिपिडगझारिअसाराणं । परिणामियं पमाणं णिच्छयमवलंबमाणाणं ॥" ति ॥ १०४ ॥
अध्यात्मस्य प्रवचने परमरहस्यत्वादेव परीक्षकैः सर्वत्र तदनुल्लङ्घनेनैव प्रवृत्तिः कर्त्तव्येत्यभिप्रायवानाह-- अप्पाबालेणं विसयविवेगं अमो मुणी बिंति।। जुत्तो हु धम्मवाओ ण सुकवाओ विवाओ वा ॥१०॥ ___ व्याख्या--' अज्झप्पावाहेणं'ति । अतोऽध्यात्मस्य परमरहस्यत्वादध्यात्मा बाधेन-स्वपरगतमैयादिसमन्वितशुभाशयाविच्छेदेन विषयविवेकं निर्णिनीषितार्थनिर्णयं त्रुवते मुनयो विगलितरागद्वेषाः साधवः कर्त्तव्यमिति शेषः । हि यतो धर्मवाद एव मध्यस्थेन पापभीरुणा च समं तत्वनिर्णयार्थमपक्षपातेन कथाप्रारम्भलक्षणो युक्तः, तत्त्वज्ञानफलत्वात् तस्य न शुष्कवादः, जये पराजये वा परस्य स्वस्य चानर्थलघुत्वापत्तेः कण्ठशोषमात्रफलो विवादो वा-दुःस्थितेनार्थिना सह छलजातिप्रधानो जल्पो युक्तः, साधूनां माध्यस्थ्यप्रधानत्वात् ,शुभानुबन्धित्वाच्च साधूनां प्रयत्नस्य ॥ १०५॥ ___ तदेवं धर्मवादेनैवाध्यात्माबाधेन तत्त्वनिर्णयस्य कर्त्तव्यत्वाच्छिष्टाचारानुरोधेन तथोद्दशेनैव प्रारब्धस्य स्वग्रन्थफलोपहितत्वं प्रदर्शयन्नन्यैरपि तत्त्वनिर्णयसिद्धयर्थमित्यमेव भणितव्यमित्युपदेशमाहजणियं किंचि फुममिणं दिसा इय धम्मवायमग्गस्स। अण्णेहि वि एवं चिय सुआणुसारेण नणियत्वं ॥१०॥ __व्याख्या--' भणियं' ति । इत्युक्तहेतोधर्मवादमार्गस्य दिशैव स्फुटमिदं किश्चित्प्रकृतार्थगोचरं भणितं मया, तेन च तात्पर्यार्थदृष्टया तत्त्वनिर्णयसिद्धिरपि कृतैवेति भावः । अन्यैरपि धर्मपरीक्षकैरेवमेव श्रुतानुसारेण भणितव्यम् । इत्यमेव प्रकृतार्थभ्रमनिवृत्त्या तत्त्वज्ञानसिद्धे रागद्वेषपरिणामाभावेन कल्याणबीजसम्पत्तेश्चेति भावनीयम् ॥१०६॥ • सर्वस्वोपदेशमाह--

Page Navigation
1 ... 274 275 276 277 278