Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२५७
वर्गादिमुखहेतुर्ग्राह्येति योगः। साऽऽज्ञा सर्वा नाममात्रेणापरीक्षिता सती न ग्राह्या, . प्रेक्षावत्प्रवृत्तेः परीक्षानियतत्वादिति भावः ॥ ८९ ॥
एतत्परीक्षोपायमाहकस-छेय-ताव-जोगां परिकियठ्या य सा सुवएणं व । एसा धम्मपरिग्का णायव्वा बुद्धिमतेणं ॥९०॥..
व्याख्या--सा-आज्ञा कषच्छेदतापयोगात् सुवर्णमिव परीक्षणीया । यथाहि-युक्तिस्वर्ण जात्यस्वर्णे च सुवर्णमात्रसाम्येन मुग्धलोकैरभेदेन प्रतीयमाने कषच्छेदतापैविचक्षणास्तत्परीक्षणं कर्तुत्सहन्ते, तथाऽऽज्ञायामपि मुग्धैः सर्वत्र नाममात्रादेकत्वेन प्रतीयमानायां विचक्षणास्तत्परीक्षां कपच्छेदतापैः कर्तुमुत्सहन्त इति बुद्धिमतैषा धर्मपरीक्षा ज्ञातव्या । यैव ह्याज्ञा स एव धर्म इत्याज्ञापरीक्षैव धर्मपरीक्षेति भावः ॥ ९ ॥ ___ कषादीनेवात्र योजयितुमाहविहिपमिसेहान कसो तऊोगकेमकारिणी किरिया। छेन तावो य इहं वा जीवाश्तत्ताणं ॥ ए॥
व्याख्या--' विहिपडिसेहाउ' त्ति । विधि:-अविरुद्धकर्तव्यार्थोपदेशक वाक्यम् । यथा- स्वर्ग-केवलार्थिना तपोध्यानादि कर्त्तव्यमित्यादि । प्रतिषेधः पुनर्न हिंस्यात् सर्वभूतानोत्यादि । एतौ द्वाविह धर्मपरीक्षायां कष एव, सुवर्णपरीक्षायां कषपट्टकरेखेव । इदमुक्तं भवति- यत्र धर्म उक्तलक्षणो विधिप्रतिषेधा पुष्कलावुपलभ्येते स धर्मः कषशुद्धः, न पुन:
“ अन्यधर्मस्थिताः सत्त्वा असुरा इव विष्णुना।
उच्छेदनीयास्तेषां हि वधे दोषो न विद्यते ॥" . -इत्यादिवाक्यगर्भ इति । तयोविधिप्रतिषेधयोर्योंगोऽनाविर्भूतयोः संभवम्, क्षेमं चावि तयोः पालना, तत्कारिणी क्रिया भिक्षाटनादिबाह्यव्यापाररूपा छेदः। यथा कषशुद्धावप्यन्तर्गतामशुद्धिमाशङ्कमानाः सौवर्णिकाः सुवर्णगोलिकादेश्छेदमाद्रियन्ते, तथा कषशुद्धावपि धर्मस्य छेदमपेक्षन्ते प्रेक्षावन्तः । स च छेदो विशु

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278