Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 268
________________ 'तदेवं केवलिनोऽवश्यंभाविनी जीवविराधना न भवति इति स्वमतिविकल्पनमनर्थहेतुरित्येतादृशाः कुविकल्पा मोक्षार्थिना त्याज्या इत्याहतिवासग्गहदोसा एया रिसया हवं ति कुविगप्पा। ते नच्छिंदिय सम्म आणा मुणी पयटिका ॥ ___ तीत्रात्-सम्यग्वक्तृवचनानिवर्तनीयत्वेनोत्कटाद्, अभिनिवेशाद्विपर्ययग्रहादेतादृशकाः कुविकल्पा भवन्ति, तानुच्छिद्य सम्यगाज्ञायां गुरुशास्त्रपारतन्त्र्यलक्षणायां मुनिः प्रवर्तत, न तु बहुश्रुतवादिख्यातिमात्रेण स्वमतिविकल्पजालग्रथनरसिको भवेदिति । 'एतादृशकाः' इत्यतिदेशेन यः परस्यायं कुविकल्पोऽ स्ति-यो मांसमश्नाति तस्य सम्यक्त्वं न भवत्येवेति, सोऽप्यपास्तो बोद्धव्यः, केवलसम्यक्त्वधारिणोऽविरतेरेव माहात्म्यादितराभक्ष्यभक्षणस्येव मांसभक्षणादपि निवृत्तेरनियमात् । यदि च सद्यः सम्मृच्छितानन्तजन्तुसन्तानदृषितं तद् ज्ञात्वा भुञानस्य सर्वांशानुकम्पाराहित्यान सम्यक्त्वमित्यभ्युपगमः, तदाऽनन्तजन्तुमयं ज्ञात्वा मूलकादिकं भक्षयटोऽपि सम्यक्त्वक्षतिरभ्युपगन्तव्या स्याद् । यदि च मांसभक्षणस्याति निन्द्यत्वात्तस्य सम्यक्त्वनाशकत्वं तदा परदारगमनस्य तत्सुतरां स्यादिति तद्व्यसनवतः सत्यकिप्रभृतेः सम्यक्त्वमुच्छिद्येत। एतेन 'बिलवासिनामपि मनुजानां तथाविधकर्मक्षयोपशमेन यदि मांसपरिहारनियन्तृत्वं तदा सम्यग्दृशां तत्सुतरां स्यादिति मांसभक्षणे सम्यक्तक्षतिरेव' इति निरस्तम् , सम्यक्त्वस्य भावधर्मत्वेन कुलधर्ममात्रत्वाभावात् , तथाविधकर्मपरिणतेरनुचितप्रवृत्तिमतोऽपि श्रद्धानगुणेन तदनपगमात् । अन्यथा स्तेनानामपि केषाञ्चित्परदारगमनपरिहारनियन्तृत्वात् , ततोऽनिवृत्तस्य सत्यकिमभृतेः सम्यक्त्वमुच्छिद्येतैवेति। न च मांसाहारस्य नरकायुर्वन्धस्थानत्वादेव तदनिवृत्तौ न सम्यक्त्वमिति शङ्कनीयम , महारम्भमहापरिग्रहादीनामपि तथात्वात् , तदनिवृत्तौ कृष्णवासुदेवानामपि सम्यक्त्वापगमापत्तेः । किं च-सम्यक्त्वधारिणां कृष्णप्रभृतीनां मांसभक्षणेऽपि सम्यक्त्वानपगमः शास्त्रेऽपि श्रूयते । तदुक्तं षष्ठाङ्गे-तएणं दुवए राया कंपिल्लपुरं णगरं अणुपविसइ, अणुपविसित्ता विउलं असणं ४ उवक्खडावेइ, उवक्खडावित्ता कोडुंबियपुरिसे सद्दावित्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया विउलं असणं ४ सुरं मजं मंसं च पसन्नं च सुबहुपुप्फफलवत्थगंधमलालंकारं वासुदेवप्पामोक्खाणं रायसहस्साणं आवासेसु साहरह । तेवि साहरंति । तएणं ति

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278