Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
२५३ सम्भावनारूढमृषाभाषादेः स्नातकचारित्रप्रतिबन्धकत्वेन दोषत्वमित्यपि निरस्तम्, असतो दोषत्वायोगात् । अत एव चित्रलिखितनारीदृष्टान्तोऽपि निरस्त:, असत आकारमात्रताया अप्यभावादिति न किश्चिदेतत् । __ यच्च छद्मस्थलिङ्गानां द्रव्यभूतानां मिथ्याकारादिलिङ्गगम्यत्वस्यापि सम्भवान्मिथ्याकारस्य वाऽनवरतप्रवृत्तावसम्भवात् संयतानां द्रव्यहिंसादिकं कादाचिकत्वेनानाभोगप्रयुक्तमेवेत्यभिधानं तदयुक्तम्, प्रत्याख्यातभावहिंसादेरेवाना भोगप्रयुक्तकादाचित्कभङ्गपरिणतिवतो मिथ्याकारविषयत्वाद्, द्रव्यहिंसामात्रे तदभावाद्, अन्यथाऽपवादपदजिनपूजाऽऽहारविहारादिक्रियाणामपि मिथ्याकारविषयत्वापत्तेः । यच षष्ठसप्तमलिंगयोश्छद्मस्थमात्रे सुलभत्वमुक्तम्, तत्पतिलेखनाप्रमार्जनादिक्रियाणां पिपीलिकादिक्षुद्रजन्तुभयोत्पादकत्वेन सावद्यत्वे स्यात्, तदेव तु नास्ति, कायादिनियताचाररूपाणां तासामौत्सर्गिकीणां क्रियाणामत्यन्तनिरवद्यत्वाद् । अपवादकल्पत्वादासां कथञ्चित्सावद्यत्वमिति चेद्, न । अपवादस्यापि विधिशुद्धस्य सावद्यत्वाभावे तत्कल्पत्वेनाभिमते तदभावाद् । न चोत्सर्गापवादव्यतिरिक्तोऽपवादकल्पो राशित्रयकल्पनारसिकं भवन्तं विनाऽन्येन केनापीष्यत इति तत्सद्भावे प्रमाणमस्ति । शक्याशक्यपरिहारविषयभेदेनापवादापवादकल्पयोर्भेदाभ्युपगमे च दुष्करमुकरखादिभेदेनानशनयुक्ताहारादिक्रियाणामुत्सर्गोत्सर्गकल्पभेदकल्पनाया अप्यापत्तेरिति न किञ्चिदेतत् । तस्मात् षष्ठसप्तमलिंगयोः सौलभ्यमपि प्रमत्तस्यैव प्रतिषेवणदशायां ज्ञेयम्, अप्रमत्तस्य तु सत्तामात्रेणैवतद्र्ष्टव्यम् । यत्तु केवलिनोऽपि परीक्षायां छद्मस्थज्ञानगोचरत्वेन द्रव्यरूपाण्येव लिङ्गानि ग्राह्याणीत्युक्तम्, तन्न चतुरचेतश्चमत्कारकारि, द्रव्यरूपाणामपि प्राणातिपातादीनामभावस्य सर्वकालीनत्वस्य हेतुघटकस्य दुर्ग्रहत्वात् । सूक्ष्मदृष्टया तद्ग्रहे च भावरूपलिङ्गानामपि न दुहत्वमिति । यच्चोक्तं स च केवली द्विविधो ग्राह्य इत्यादि, तदसत् । क्षीणमोहे केवलित्वस्यागमबाधितत्वात्, आगमे छद्मस्थवीतरागमध्य एव क्षीणमोहस्य परिगणितत्वात् । उक्तं च प्रज्ञापनायां-"स किं तं खीणकसायवीयरायचरित्तायरिआ ? खीणकसायवीयरागचरित्तायरिआ दुविहा पं० । तं०-छउमत्थखीणकसायवीयरायचरित्तायरिया य, केवली खीणकसाय पीयरागचरित्तायरियाय” इत्यादि । यदि चैता(मा)गम बाधामुल्लङ्घयापि भाविनि भूतवदुपचारः" इति न्यायाद् द्वादशे गुणस्थाने कथञ्चित्केवलित्वमभ्युपगम्यते, तर्हि चरमचरीरिणि प्रथमादिगुणस्थानवर्तिनि क्षपकश्रेण्यारूढे वा सप्तमादिगुण

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278