Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 269
________________ २५६ वासुदेवप्पामोक्खा विउलं असणं जाव संपन्नं आसाएमाणा विहरंति "त्ति । न चात्र मांसभक्षणादिकं स्वपरिवारभूतमिथ्यादृशामेव तदाज्ञानिमित्तकत्वात् तत्कर्तृकं व्यपदिष्टमिति शंकनीयम् , 'वासुदेवप्रमुखा' इत्यत्र सर्वेषामेकक्रियायोगात् सम्यक्त्वनाशके तत्र तदाज्ञानस्याप्यनुपपत्तेश्च । यत्तु वर्णनमात्रत्वेनैतत्सूत्रस्याकिश्चित्करत्वं परेणोद्भाव्यते, तस्य महानेव कृतान्तकोपः। एवं सति स्वर्गदर्यादिप्रतिपादकसूत्राणामपि वर्णनमात्रत्वेनाकिश्चित्करताया वावदूकेन वक्तुं शक्यत्वाद्, लोकनिन्द्यविषयमात्रेणापि यथास्थितार्थप्रतिपादकसूत्रविलोपे नास्तिकत्वस्यानिवारितप्रसरतया सर्वविलोपप्रसङ्गादिति । किञ्च-यधनन्तकायादिमांसादिभक्षणे सम्यक्त्वस्य मूलोच्छेदः स्यात्, तदा तत्र तपःमायश्चित्तं नोपदिष्टं स्यात्, उक्तं च तत्तत्र । तदुक्तं श्राद्धजीतसूत्रवृत्त्योः " चउगुरुणं ते चउलहु परित्तभोगे सचित्तवजिस्स । मंसासववयभंगे छग्गुरु चउगुरु अणाभोगे॥" व्या०-सचित्तवर्जस्य श्रावकादेः 'अनन्त'त्ति अनन्तकायानांमूलकादीनां भक्षणे चतुर्गुरुपायश्चित्तं भवति । यदागमः-" सो उ जिणपडिकुट्ठो अणंतजीवाण गा(बा)यणिप्फण्णो । गेहीपसंगदोसा अणंतकाओ अओ गुरुगा" ॥१॥ तथा सचित्तवर्जस्यैव श्राद्धादेः 'परित्त 'त्ति प्रत्येकपरिभोगे-प्रत्येकाम्रादिपुष्पफलादिभोगे चतुर्लघुप्रायश्चित्तम् । तथा मांसासवयोरुपलक्षणान्मधुनवनीतयोश्च 'वयभंगे' त्ति अनाभोगतः पृथग्वक्ष्यमाणत्वादत्रांभोगतो ज्ञेयम् । ततश्चाभोगे सति व्रतस्य नियमस्य भङ्गे षड्गुरु, 'चउगुरु 'त्ति अनाभोगे मांसासवमधुनवनीतानां व्रतभङ्गेषु चतुर्गुरुपायश्चित्तं भवतीति गाथाक्षरार्थ इति । ततो 'मांसभक्षणे सम्यक्त्वं नश्यत्येव ' इत्ययमपि कुविकल्प एवेति बोध्यम् , ॥ ८८ ॥ ननु विकल्पोच्छेदेनाज्ञया प्रवृत्तिहितावहोक्ता । न चाज्ञामात्रानुसरणं हितावहं सम्भवति, सर्वत्र सौलभ्याद्, दृश्यन्ते हि सर्वेऽपि निजनिजगुर्वाधाज्ञायत्ता इत्युपादेयाज्ञाविशेषमाहआणा पुण जगगुरुणो एगंतसुहावहा सुपरिसुद्धा। अपरिकिया ण गिज्जा सा सवा णाममित्तणं नए॥ व्याख्या-आणा पुण 'त्ति । आज्ञा पुनर्जगद्गुरोस्त्रिभुवनधर्मगुरोभंगवतो वीतरागस्य सुपरिशुद्धा सम्यपरीक्षाप्राप्ता एकान्तसुखावहा नियमेन स्वर्गाप

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278