Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 267
________________ २५४ 46 स्थानवर्त्तिनि तदभ्युपगन्तव्यं स्यात् । किञ्च - क्षीणमोहस्य केवलित्वविवक्षा केनापि न कृतेति कथं भवता कर्त्तव्या ? नहि स्वल्पकालभाविकेवलज्ञानस्यापि छद्मस्थस्य केवलत्वविवक्षा कर्त्तुं युज्यते । अत एव " छ ठाणाई छउमत्थे सहभावेणं ण जाण, ण पास । तं० - धम्मत्थिकायं अधम्मत्थिकायं आगासं जीवं असरीरपडिबद्धं परमाणुपोग्गलं । एताणि चैव उप्पण्णणाणदंसणधरे जाणति' - इत्यादि स्थानाङ्गसूत्रे | इह छद्मस्थो विशिष्टावध्यादिविकलः, नत्वकेवली, यतो यद्यपि धर्माधर्माकाशान्यशरीरजीवं च परमावधिर्न जानाति, तथापि परमाणुशडौ जानात्येव, रूपित्वात् तयोः, रूपिद्रव्यविषयत्वाच्चावधेः । " - इत्यादि वृत्तावुक्तम् । अत्र परमावधेरन्तर्मुहूर्त्तादूर्ध्वमुत्पत्स्यमानकेवलज्ञानस्यापि केवलित्वविवक्षा न कृता । यदि च परमावधिमतः केवलित्वविवक्षामकरिष्यत् तदा व्यभिचारशङ्कव नास्तीति छद्मस्थपदस्य विशेषपरत्वं नावक्ष्यद् वृत्तिकारः । तस्मात् क्षीणमोहस्याप्यन्तर्मुहूर्त्तादूर्ध्वमुत्पत्स्यमानकेवलज्ञानस्य कथञ्चित्केवलित्वविवक्षा शास्त्रवाधितैवेति । यदि च क्षीणचारित्रावरणत्वाद्धेतोः क्षीणमोहे केवलित्वं दुर्निवारं, तदा निरतिचारसंयमत्वादप्रतिषेवित्वाच्चोपशान्तमोहे कषायकुशीले च तद्दुर्निवारं स्यादिति बोध्यम् । यच्च रागद्वेषवच्वच्छद्मस्थत्वादीनामैक्यौद्भावनेन दूषणं दत्तं तत्तु न किञ्चिद्; एवं सति समनियतधर्ममात्र व्याप्त्युच्छेदप्रसङ्गादिति दिग् । इर्द लिहास्माकमाभाति - यदालोचनायोग्य विराधनादिकं छद्मस्थमात्रलिङ्ग, तदभावश्च केवलिनो लिङ्गम, 'कदाचिद्' इत्यनेन ' कदाचिदपि ' इत्यनेन चैतदर्थस्यैत्र स्फोरणात् । आलोचनायोग्यताया अनाभोगप्रयुक्तकादाचित्कतानियतत्वाद्, इतरत्र च तदभावाद् । इत्थं च केवली न कदाचिदपि प्राणानामतिपातयिता भवति, क्षीणचारित्रावरणत्वाद्-इत्यादौ विशिष्ट हेतुरनुसन्धेयः, अन्यथा केवलित्वगमकानि लिङ्गानि क्षीणमोहे न सन्ति, किन्तु स्वरूपतः सन्ति । यथा-वह्निरनुष्णः, कृतकत्वाद् - इत्यनुमाने कृतकत्वं वह्नौ स्वरूपतः सदप्यनुष्णवगमकलिङ्गत्वेन नास्तीति प्रत्यक्षवाधितपक्षत्वादगमकं प्रोच्यते, तद्वत् 'क्षीणमोहे सप्तापि स्थानानि ' इत्युक्तावपि न निस्तारः, तद्वदेवाप्रयोजकत्वेन प्रकृतिलिङ्गव्यभिचारानुद्धारात् । नह्ययः पिण्डो धूमवान् वह्निमत्वाद्-इत्यत्र पक्षदोषमात्रेण हेतुदोषो निराकर्तुं शक्यते—इत्यनुमानहेतुत्वे उक्तप्रकार आश्रयणीयः, सम्भावनाहेतुत्वे तु न किमप्युपपादनीयम् - इत्युपयुक्तैविभावनीयमिति दिक् ॥ ८७ ॥ "

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278