Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 271
________________ द्धबाह्यचेष्टारूपः, विशुद्धा च चेष्टा सा यत्रासन्तावाप विधिप्रतिषेधाववाधितरूपौ स्वात्मानं लभेते, लब्धात्मानौ चातिचारविरहितावुत्तरोत्तरां वृद्धिमनुभवतः, ईटशी यत्र धर्मे चेष्टा समपश्चा प्रोच्यते सधर्मछेदशुद्ध इति । तापश्च जीवादितत्त्वानां वादः-स्याद्वादरीत्योपन्यासः । यथा हि-कपच्छेदशुद्धमपि सुवर्ण तापमसहमानं कालिकोन्मीलनदोषान्न सुवर्णभावमश्नुते, एवं धर्मोऽपि सत्यामपि कपच्छेदशुद्धौ तापपरीक्षायामनिर्वहमाणो न स्वभावमासादयति, अतो जीवादितत्त्वानां स्याद्वादमरूपणया तापशुद्धिरन्वेषणीया । यत्र हि शास्त्रे द्रव्यरूपतयाऽप्रच्युतानुत्पन्नः पर्यायात्मकतया च प्रतिस्वमपरापरस्वभावास्कन्दनेनानित्यस्वभावो जीवादिरवस्थाप्यते स्यात्तत्र तापशुद्धिः । यतः परिणामिन्येवात्मादौ तथाविधाशुद्धपर्यायप्रादुर्भावादुक्तलक्षणः कषो बाह्यचेष्टाशुद्धिलक्षणश्च छेद उपपद्यते न पुनरन्यथेति । अत्र च तापपरोक्षा बलवती, कषच्छेदभावेऽपि तापाभावे परीक्षाऽसिद्धः, नहि तापे विघटमानं हेम कपच्छेदयोः सतोरपि स्वं स्वरूपं प्रतिपत्तुमलम, युक्तिस्वर्णत्वात्तस्येति ॥ ९१॥ एताभिः परीक्षाभिर्धर्मे परीक्षिते धर्मवान गुरुरपि परीक्षिन एव भवतीत्यभिप्रायवानाहएयाहिं परिकाहि सुद्धे धम्ममि परिणया जे छ । गुरुणो गुणजलणिहिणो ते विविसुधा सुवर्ण व ए॥ व्याल्या-एताभिः कषादिपरीक्षाभिः शुद्ध धर्म ये परिणता एव ते गुरवोऽपि गुणजलनिधयः सुवर्णमिव विशुद्धा द्रष्टव्याः, यद्रव्यं यदा यद्रूपेण परिणमते तदा तन्मयमेवेति शुद्धधर्मपरिणता गुरवोऽपि शुद्धधर्मरूपत्वेनैवादरणीया इति भावः ॥ ९२॥ सुवर्णसदृशत्वमेव गुरूणां भावयन्नाहसत्योश्यगुणजुत्तो सुवन्नसरिसो गुरू विणि हिट्ठो । ता तत्थ नणंति इमे विसघायाई सुवन्नगुणे ॥ ए३॥ व्याख्या-'सत्योइय' त्ति । शास्त्रे दशवकालिकादावुदिताः प्रतिपादिता ये गुणाः साधुगुणास्तैर्युक्तः सहितः सुवर्णसदृशो गुरुर्विनिर्दिष्टः, तत्तस्मात्कारणा

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278