Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 264
________________ २५१ मृषाभाषणं तन्मूलकमेव स्यात् , तथा च क्षीणमोहे तस्याप्यभावः पामोति । ननूक्तं तदनाभोगहेतुकमेवेति चेत्, तर्हि तादृशं द्रव्यतो मृषाभाषणमेव किमिति नाभ्युपेयते ? किं सम्भावनया ? न च द्रव्यभूतेन तेन प्रत्याख्यानभङ्गो भवति, भावभूतस्यैव तस्य प्रत्याख्यातत्वात् , “प्रमत्तयोगादसदभिधानं मृषा" इति तत्वार्थवचनात् । न च भावतः प्राणातिपातमृषाभाषणादेर्यत्कारणं तदेव तस्य द्रव्यतोऽपीति क्षीणमोहेन तत्सम्भवतीति वाच्यम्, एवं सति भावतो ज्ञानदर्शनचारित्राणां यानि कारणानि तान्येव द्रव्यभूतानां तेषां कारणानि स्युरिति अभव्यादोनामपि द्रव्यता ज्ञानदर्शनचारित्रवतां ज्ञानावरणीय-दर्शनमोहनीय चारित्रमोहनीयकर्मक्षयोपशमाः कारणानि स्युः । तथा चागमबाधा । किश्च-एवं केवलिनो द्रव्येन्द्रियाणामप्यभावापत्तिः, भावेन्द्रियहेतुज्ञानावरणदर्शनावरणक्षयोपशमयोः केवलिन्यभावाद् । न च द्रव्येन्द्रियाभावः केवलिन्युक्तः, किन्तु भावेन्द्रियाभाव एवेति । किं च-उपशान्तमोहे यथा जीवविराधना मोहनीयकारणमन्तरेणापि भवति, तथा क्षीणमोहे मोहाभावेऽपि द्रव्यतो जीवविराधनामृषाभाषादिसद्भावे किं बाधकम् ? अथास्त्येवागमबाधा । तथा हि-" रायगिहे जाव एवं वयासी, अह भंते ! पाणाइवाए मुसावाए अदिण्णादाणे मेहुणे परिग्गहे' एस णं कतिवण्णे कतिगंधे कतिरसे कतिफासे पण्णत्ते ? गोयमा ! पंचवण्णे दुगंधे पंचरसे चउफासे पण्णत्ते" इत्यादि भगवतीसूत्रे द्वादशशते पञ्चमोद्देशके प्रोक्तम् । 'रायगिहे' इत्यादि । 'पाणाइवाए' त्ति प्राणातिपातजनितं तज्जनकं वा चारित्रमोहनीयं कर्मोपचारात् प्राणातिपातः, एवमुत्तरत्रापि, तस्य च पुद्गलरूपत्वात् वर्णादयो भवन्ति, अत उक्तं 'पंचवण्णे' इत्यादि। आह च-"पंचरस-पंचवष्णेहिं परिणायं दुविहगंधचउफासं। दवियमणंतपएसं सिद्धेहिं गंतगुणहीणं ॥” इत्याद्येतद्वृत्तावुक्तम् । एतदनुसारेण च प्राणातिपातादीनां चारित्रमोहनीयत्वात् क्षीणमोहे तदनुपपत्तेः। उपशान्तमोहे तु मोहसद्भावात्माणातिपाताद्यङ्गीकारे न किश्चिद्वाधकमिति चेद् । एतदप्यसत, भावप्राणातिपातापेक्षयैवोक्तोपचारव्यवस्थितेः, अन्यथा द्रव्यमाणातिपातादीनां चारित्रमोहनीयकर्मजनकत्वे सूक्ष्मसम्परायादौ षड्विधबन्धकत्वादि न स्यात् । तज्जन्यत्वे च तस्योदितस्यानुदितस्य वा जनकत्वं वाच्यम् । आये उपशान्तमोह. द्रव्यप्राणातिपाताद्यनुपपत्तिः । अन्त्ये च चारित्रमोहनीयसत्तामात्रादुपशान्तमोहे तत्कार्यप्राणातिपातस्वीकारे नाग्न्यादीनां सप्तानां परीषहाणामपि तत्र स्वीकारा

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278