Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 263
________________ २५० च योगवीर्यमुक्तं तद्भावपरिणामरूपमेव, यथोक्तं सूत्रकृताङ्गवीर्याध्ययनवृत्तौ । तथा मनोवाक्कायादीनां तद्भावपरिणतानां यदीर्य सामर्थ्य तद्विविध-सम्भवे सम्भाव्ये च। सम्भवे तावत्तीर्थकृतामनुत्तरोपपातिकानां च सुराणामतीव पटूनि मनोद्रव्याणि भवन्ति । तथाहि-तीर्थकृतामनुत्तरोपपातिकसुरमनःपर्यायज्ञानिप्रश्नव्याकरणस्य द्रव्यमनसैव करणाद्, अनुत्तरोपपातिकसुराणां च सर्वव्यापारस्यैव मनसा निष्पादनादिति । सम्भाव्ये तु यो हि यमर्थ पटुमतिना प्रोच्यमानं न शक्नोति साम्पतं परिणमयितुं, सम्भाव्यते त्वेष परिकर्यमाणः शक्ष्यत्यमुमथै परिणमयितुमिति । वाग्वीर्यमपि द्विविध-सम्भवे संभाव्ये च ।तत्र सम्भवेतीर्थकृतां योजननिर्झरिणी वाक् सर्वस्वभाषानुगता च; तथाऽन्येषामपि क्षीरमध्वाश्रवादिलब्धिमतां वाचः सौभाग्यमिति । तथा हंसकोकिलादीनां सम्भवति स्वरमाधुर्यम् । सम्भाव्ये तु सम्भाव्यते श्यामायाः स्त्रियो गानमाधुर्यम् । तथा चोक्तम्-" श्यामा गायति मधुरं काली गायति खरं च रूक्षे(क्षं चे)'त्यादि। तथा सम्भावयाम एनं श्रावकदारकमकृतमुखसंस्कारमप्यक्षरेषु यथावदभिलप्तव्येष्विति, तथा सम्भावयामः-शुकसारिकादीनां वाचो मानुषभाषापरिणामः । कायवीर्यमप्यौरस्यं यद्यस्य बलम् । तदपि द्विविधंसम्भवे सम्भाव्ये च । सम्भवे यथा चक्रवर्तिबलदेववासुदेवानां यद्वाहुबलादिकायबलम् । तद्यथा-कोटिशिला त्रिपृष्ठेन वामकरतलादुद्धृता, यदि वा 'सोलसरायसहस्सा' इत्यादि यावदपरिमितबला जिनवरेन्द्रा इति । सम्भाव्ये तु-सम्भाव्यते तीर्थकरो लोकमलोके कन्दुकवत् प्रक्षेप्तुम् , तथा मेरुं दण्डवत् गृहीत्वा वसुधां छत्रकवद्ध मिति । तथा सम्भाव्यतेऽन्यतरसुराधिपो जम्बूद्वोपं वामहस्तेन छत्रकवद्धतुमयत्नेनैव मन्दरमिति । तथा सम्भाव्यतेऽयं दारकः परिवर्द्धमानः शिलामेनामुद्धर्तुं हस्तिनं दमयितुमश्वं वाहयितुमित्यादि, तद्वदिह यदि क्षीणमोहे सम्भावनारूढं मृषाभाषणं सम्भवे वक्तव्यं तदा व्यक्तित एव भावरूपं संपन्नम् । यदि च सम्भाव्ये तदा शक्तित इति न कथमपि पृथग् 'भवितुमर्हति । न च क्षीणमोहे मृषाभाषणं केवलं सम्भाव्यमेव, अपूर्वादिषु पञ्चमु गुणस्थानकेषु चतसृणां भाषाणां कर्मग्रन्थे द्वितीयतृतीयवाग्योगौ मिथ्यादृष्टेरारब्धौ यावत् क्षीणकषायवीतरागछअस्थस्तावल्लभ्येते । तथोपशान्तकषायस्थाने क्षीणकषायस्थाने च 'नवयोगा बन्धहेतवः' इत्यस्य चार्थस्याविशेषेणैवाभिधानाद् । अवश्यंभावित्वाभिप्रायेण च यत्सम्भाव्यत्वाभिधानं तत्तु सत्संयतमात्रस्यैव मृषाभाषणादेः स्यादिति द्रष्टव्यम् । किञ्च-सर्वमपि मृषाभाषणं क्रोधमूलकमेवेति वदतस्तव सम्भावनारूढमपि

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278